________________
पद्मपुराणम् ।
चचत्वारिंशत्तमं पर्व
तस्मादकीर्तिसंभूतिमकुर्वन् स्वार्थतत्परः । रहः प्रयत्नमारेभे लोको हि परमो गुरुः ॥ ७१ ॥ इति ध्यात्वावलोकन्या विद्ययोपायमंजसा । विवेद हरणे तस्यास्तेषां नामकुलादि यत् ॥ ७२ ॥ अयं स लक्ष्मणः ख्यातो बहुभिः कृतरोधनः । अयं स रामः सीतेयं सा गुणैः परिकीर्तिता ७३ अमुष्य व्यसनं कृत्वा सिंहनादं स धन्विनः । गरुत्मानिव गृधस्य सीतां पेशीमिवाददे ॥ ७४ ॥ जायावैरप्रदीप्तोयमजय्यः खरदूषणः । शक्त्यादिभिः क्षणादेतौ भ्रातरौ मारयिष्यति ॥ ७५ ॥ महाप्रकृष्टपूरस्य नदस्योद्दाररंहसः । तटयोः पातने शक्तिः केन न प्रतिपद्यते ॥ ७६ ॥ इति संचित्य कामार्तः शिशुवत्स्वल्पमानसः । विषवन्मरणोपायं हरणं प्रति निश्चितः ॥ ७७ ॥ शस्त्रांधकारिते जाते तयोरथ महाहवे । कृत्वा सिंहरवं रामरामेति च मुहुर्जगौ ॥ ७८ ॥ तं च सिंहरवं श्रुत्वा स्फुटं लक्ष्मणभाषितं । प्रीत्यारतिमयात्पद्यो व्याकुलीभूतमानसः ॥ ७९ ॥ निर्माल्यैजनकीं सम्यक् प्रच्छाद्यात्यंतभूरिभिः । क्षणमेकं प्रिये तिष्ठ माभैषीरिति संगदन् ॥ ८० ॥ वयस्य वनितां तावज्जटायू रक्ष यत्नतः । किंचिदस्मत्कृतं भद्र स्मरस्युपकृतं यदि ॥ ८१ ॥ इत्युक्तो वार्यमाणोऽपि शकुनैः क्रंदनाकुलैः । सतीं मुक्त्वा जनेऽरण्ये वेगवान् प्राविशद्रणं ॥ ८२ ॥ अत्रांतरे समागत्य विद्यालोकेन कोविदः । सीतामुत्क्षिप्य बाहुभ्यां नलिनीमिव वारणः ॥ ८३ ॥
Jain Education International
२५०
For Private & Personal Use Only
www.jainelibrary.org