________________
पद्मपुराणम् ।
प्रयस्त्रिंशत्तम पर्व। स त्रिःप्रदक्षिणीकृत्य मधपाणिर्जिनालयं । स्तुत्वा ननाम चंद्राभं भक्तिहृष्टस्तनूरुहः ॥ २८५ ॥ ततश्च विनयी गत्वा स्तुत्वा तौ भ्रातरौ क्रमात् । अपृच्छद्वपुरारोग्यं सीतां च विधिकोविदः२८६ भद्र ते कुशलेनाद्य कुशलं नः समंततः । इति तं राघवोऽवोचन्नितांतं मधुरध्वनिः ॥ २८७ ॥ संकथेयं तयोयोवद्वतते शुभलीलयोः। चारवेषोथ सैन्येन विद्युदंगः समागतः ॥ २८८ ॥ स तयोः प्रणतिं कृत्वा स्तुत्वा च क्रमपंडितः । समीपे वज्रकर्णस्य सन्निविष्टः प्रतापवान।।२८९॥ विद्युदंगः सुधी सोयं वज्रकणसुहृत्परः । इति शब्दः समुत्तस्थौ तदा सदसि मांसलः ॥२९॥ पुनश्च राघवोऽवोचत्कृत्वा स्मितसितं मुखं । वज्रकर्ण ! समीचीना तव दृष्टिरियं परा ॥ २९१ ॥ कुमतैस्तव धीरेपा मनागपि न कंपिता । उत्पातवातसंघातैः मंदिरेस्येव चूलिका ॥ २९२ ॥ ममापि सहसा दृष्ट्वा न ते मूधोयमानतः । अहो परमिदं चारु तव शांतं विचेष्टितं ॥ ६९३ ॥ अथवा शुद्धतत्त्वस्य किमु पुंसोस्ति दुस्तरं । धर्मानुरागचित्तस्य सम्यग्दृष्टेविशेषतः ॥ २९४ ॥ प्रणम्य त्रिजगद्वंद्यं जिनेंद्रं परमं शिवं । तुगेन शिरसा तेन कथमन्यः प्रणम्यते ॥ २९५ ॥ मकरंदरसास्वादलब्धवर्णो मधुव्रतः । रासभस्य पदं पुच्छे प्रमत्तोऽपि करोति किं ॥ २९६ ॥ बुद्धिमानसि धन्योऽसि दधास्यासन्नभव्यतां । चंद्रादपि सिता कीर्तिस्तव भ्राम्यति विष्टपे २९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org