________________
पद्मपुराणम् ।
१२६
त्रयस्त्रिंशत्तमं पर्व । विद्युदंगोप्ययं मित्रं परं ते विदितं मया । भव्योयमपि यः सेवां तव कर्तुं समुद्यतः ॥ २९८ ॥ सद्भूत गुणसत्कीर्तेरथ लज्जामुपागतः । किंचिन्नताननोऽवोचच्छुनाशीरायुधश्रवाः ॥ २९९ ॥ अत्रावसीदतो देव प्राप्तस्य व्यसनं महत् । संजातोऽसि महाभाग मे त्वं परमबांधवः ॥ ३०० ॥ नियमस्त्वत्प्रसादेन ममायं जीवितोऽधुना । पालितो मम भागेन त्वमानीतो नरोत्तमः || ३०१ ॥ वदन्नेवमसा ऊचे लक्ष्मणेन विचक्षणः । वदाभिरुचितं यत्ते क्षिप्रं सम्पादयाम्यहम् || ३०२ ॥ सोवोचत्सुहृदं प्राप्य भवंतमतिदुर्लभं । न किंचिदस्ति लोकेऽस्मिन्निदं तु प्रवदाम्यहं ॥ ३०३ ॥ तृणस्यापि न वांछामि पीडां जिनमताश्रितः । अतो विमुच्यतामेष मम सिंहोदरप्रभुः ॥ ३०४ ॥ इत्युक्ते लोकवक्त्रेभ्यः साधुकारः समुद्ययौ । प्राप्तद्वेषेऽपि पश्यायं मतिं धत्ते शुभामिति ॥ ३०५ || अपकारिणि कारुण्यं यः करोति सः सज्जनः । मध्ये कृतोपकारे वा प्रीतिः कस्य न जायते ३०६ एवमस्त्विति भाषित्वा लक्ष्मणेन तयोः कृता । हस्तग्रहणसंपन्ना प्रीतिः समयपूर्विका ॥ ३०७ ॥ उज्जयिन्या ददावधं वज्रकर्णाय शुद्धधीः । सिंहोदरो हृतं पूर्वं विषयोद्वासने च यत् ॥ ३०८ ॥ चतुरंगस्य देशस्य गणिकानां धनस्य च । विभागं समभागेन निजस्याप्यकरोदसौ ॥ ३०९ ॥ बार्हद्गतप्रसादेन तां वेश्यां तच्च कुंडलं । लेभे सेनाधिपत्यं च विद्युदंगः शुचिश्रुतः ॥ ३१० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org