________________
पद्मपुराणम् ।
१२७
त्रयस्त्रिंशत्तमं पर्व । वज्रकर्णस्ततः कृत्वा रामलक्ष्मणयोः परां । पूजामानाय यत्क्षिप्रमष्टौ दुहितरो वराः ॥३११ ॥ सजायो दृश्यते ज्यायानिति तास्तेन ढौकिताः । लक्ष्मीधरं कृतोदारविभूषाविनयान्वितः ॥३१२॥ नृपाः सिंहोदराद्याश्च ददुः परमकन्यकाः । एवं सन्निहितं तस्य कुमारीणां शतत्रयं ॥ ३१३ ॥ ढोकित्वा वज्रकर्णस्ताः समं सिंहोदरादिभिः । जगाद लक्ष्मणं देव तवता वनिता इति ॥३१॥ लक्ष्मीधरस्ततोऽवोचद्दारसंगं करोम्यहं । न तावन्न कृतं यावत्पदं भुजबलार्जितं ॥ ३१५ ॥ पद्मश्च तानुवाचैवं नास्माकं वसतिः कचित् । भरतस्याधिराज्यस्मिन् देशे स्वर्गतलोपमे ॥३१६॥ देशान् सर्वान् समुलंध्य करिष्याम्यालयं ततः । आश्रित्य चंदनगिरि दक्षिणार्णवमेव वा ॥३१७॥ एका वेलामिह ततो जनन्यो नेतुमुत्सुके । आगंतव्यं मयावश्यं द्रागयोध्यामनेन वा ॥ ३१८ ॥ काले तत्रैव नेष्यंते कन्यका अपि भो नृपाः । अज्ञातनिलयस्यास्य कीदृशो दारसंग्रहः ॥३१९॥ एवमुक्ते कुमारीणां तवृदं शुशुभे न च । आकुलं पंकजवनं हिमवाताहतं यथा ॥ ३२० ॥ प्रियस्य विरहे प्राणान् त्यक्ष्यामो यदि तत्पुनः । अवस्यामः कुतोनेन समागमरसायनं ॥३२१॥ प्राणांश्च धारयंतीनां कैतवं मन्यते जनः । दह्यते च समिद्धेन मनो विरहवाहिना ॥ ३२२ ॥ सुमहान् भृगुरेकत्र व्याघ्रोऽन्यत्रातिदारुणः । अहो कष्टं कमाधारं व्रजामोत्यंतदुस्सहाः ॥३२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org