________________
पद्मपुराणम्।
त्रयस्त्रिंशत्तम पर्व करुणं बहु कुर्वत्यः पुनः सांजलयोऽवदत । रुष्टोसि यदि देवास्मान जहि निर्धार्यतामयं ॥२७२॥ प्रसादं कुरु मा दुःखं दर्शय प्रियसंगमं । ननु योषित्सु कारुण्यं कुर्वति पुरुषोत्तमः ॥ २७३ ॥ पुरो मोक्षामि सेवध्वं स्वस्थतामित्यसौ वदन् । ययौ चैत्यालयं यत्र ससीतो राघवःस्थितः २७४ अवोचल्लक्ष्मणः पद्मं सोयं वज्रश्रुतेररिः । आनीतोऽस्याधुना देव कृत्यं वदतु यन्मया ॥२७५।। ततः सिंहोदरो मूर्ना करकुड्मलयोगिना | पपात वेपमानांगः पद्मस्य क्रमपद्मयोः ॥ २७६ ॥ जगाद च न देव त्वां वेमि कोसीति कांतिमान् । परेण तेजसा युक्तो महीध्रप्रतिसन्निभः।।२७७।। मानवो भव देवो वा गंभीरपुरुषोत्तमः । अत्र किं बहुमिः प्रोक्तैरहमाज्ञाकरस्तव ॥ २७८ ॥ गृह्णातु रुचितस्तुभ्यं राज्यमिंद्रायुधश्रुतिः । अहं तु पादशुश्रूषां करोमि सततं तव ॥ २७९ ॥ धव-मिक्षां प्रयच्छेति योषितोप्यस्य पादयोः । रुदत्यः प्रणिपत्योचुः कुर्वत्यः करुणं बहु २८० देवि स्त्रैणात्त्वमस्माकं कारुण्यं कुरु शोभने । इत्युदित्वा च सीतायाः पतितास्ताः क्रमाजयोः॥ ततः सिंहोदरं पद्मो जगाद विनयाननं । कुर्वन् वापीषु हंसानां मेघनादोद्भवं भयं ॥ २८२ ॥ शक्रायुधश्रुतियत्ते ब्रवीति कुरु तत्सुधीः । एवं ते जीवितं मन्ये प्रकारोन्यो न विद्यते ॥ २८३॥ आहूतोऽथ हितैः पुंभिः कृतदृष्टयाभिवर्धनः । वज्रकर्णः परीवारसहितश्चैत्यमागमत् ॥ २८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org