________________
पद्मपुराणम् ।
१६६
सप्तत्रिंशत्तमं पर्व ।
तिष्ठ त्वमिह कुर्वाणः सुप्रयुक्तमहं तव । पुत्रजामातृभिः सार्धमंतं तस्य व्रजाम्यरेः ॥ ६० ॥ इत्युक्त्वा रथमासा परं सारबलान्वितैः । महीधरसुतैः साकं ससीतो लक्ष्मणान्वितः ॥ ६१ ॥ नंद्यावर्तरी रामो गंतुं प्रववृते जवी । प्राप्तश्वावस्थितस्तस्य पुरस्य निकटेंतरे ।। ६२ ॥ तनुकृत्ये कृते तत्र संबंधितनयैः सह । रामलक्ष्मणयोमंत्रः सीतायाश्वेत्यवर्तत ॥ ६३ ॥ जगाद जानकी नाथ भवतः सन्निधौ मम । वक्तुं नैवाधिकारोऽस्ति किं तारा भांति भास्करे । तथापि देव भाषेहं प्रेरिता हितकाम्यया । जातो वंशलतातोऽपि मणिः संगृह्यते ननु ॥ ६५ ॥ अतिवीर्योऽतिवीर्योयं महासाधनसंगतः । क्रूरकर्मा कथं शक्यो जेतुं भरतभूभृता ।। ६६ । अतस्तं निर्जये तावदुपायाचित्यतां द्रुतं । सहसारभ्यमाणं हि कार्य व्रजति संशयं ॥ ६७ ॥ त्रिलोकेप्यस्ति नासाध्यं भवतो लक्ष्मणस्य वा । किंतु प्रस्तुतमत्यक्त्वा समारब्धं प्रशस्यते ॥ ६८ ॥ ततो लक्ष्मीधरोऽवोचत्किमेवं देवि भाषसे । पश्य स्वो निहितं पापमणुवीर्ये मया रणे ॥ ६९ ॥ रामपादरजः पूतशिरसो मे सुरैरपि । न शक्यते पुरः स्थातुं क्षुद्रवीर्ये तु का कथा ॥ ७० ॥ न यावदथवा याति भानुरस्तं कुतूहली । वीक्ष्यतां तावदद्यैव क्षुद्रवीर्यस्य पंचतां ॥ ७१ ॥ युवगर्व समाध्माता संबंधितनया अपि । एतदेव वचोचत्प्रतिशब्दमिवोन्नतं ।। ७२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org