________________
१६७
पापुराणम् ।
सप्तत्रिंशत्तम पर्व। ततः पद्मो निवार्यैतान् भ्रूभंगेन महामनाः । अब्रवील्लक्ष्मणं धैर्यादब्धि गंडूषयन्निव ॥ ७३ ॥ युक्तमुक्तमलं तात जानक्या वस्तु पुष्कलं । स्फुटीकृतं तु नात्यंतमत्यासादनभीतया ।। ७४ ॥ अस्या शृणु यदाकूतमतिवीर्यो बलोद्धतः । भरतेन स नो शक्यो वशीकर्तुं रणाजिरे ॥ ७५ ॥ भागो न भरतस्तस्य दशमोऽपि भवत्यतः । तस्य दावानलस्यायं किं करोति महागजः ॥७६॥ दंतिभिश्च समृद्धस्य समृद्धोऽपि तुरंगमैः । भरतो नैव शक्योऽस्य यथा विध्यस्य केसरी ॥७७॥ भरतस्य जये नात्र संशयोऽपि समीक्ष्यते । एकांतस्तु कुतो वापि स्याज्जंतुप्रलयस्तथा ॥ ७८ ॥ कष्टमेककयोर्जाते विरोधे कारणं विना । पक्षद्वयं मनुष्याणां जायते विवशः क्षयं ॥ ७९ ॥ दुरात्मनातिवीर्येण भरते च वशीकृते । जायते रघुगोत्रस्य कलंकः पश्य कीदृशः ॥ ८०॥ नेक्ष्यते संधिरप्यत्र शत्रुघ्नेन च मानिना । शैशवेन कृतं दोषं शत्रावत्युद्धते शृणु ॥ ८१ ॥ विभावयां तमिस्रायां किलावस्कंददायिना । रौद्रभूतिसमेतेन शत्रुघ्नेन चरिष्णुना ॥८२ ॥ निद्रावशीकृतान् वीरान् बहून् कृत्वा मृतक्षतान् । हस्तिनश्च दुरारोहान् प्रगलद्दाननिर्झरान् ८३ चतुःषष्ठिसहस्राणि वाजिनां वातरंहसां । शतानि सप्त चेभानामंजनाद्रिसमत्विषां ॥ ८४ ॥ वाह्यस्थानि पुरस्यास्य नीतानि दिवसैनिभिः । भरतस्यांतिकं किं ते न श्रुतानि जनास्यतः ८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org