SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३५६ त्रिपञ्चाशत्तम पर्व । विशालान् पनसाघांश्च चिक्षेप क्षेपवर्जितः ॥ १९७ ॥ बभंज त्वरितं कांश्चिदपरानुदमूलयत् । मुष्टिपादप्रहारेण यियेषान्यान्महाबलः ॥ १९८ ॥ आकूपारसमंतेन सैन्यमेकेन तत्कृतम् । समाकुलं गतं क्वापि क्षणेन प्रियजीवितम् ॥ १९९ ॥ सहायैर्मृगराजस्य कुर्वतो मृगशासनम् । कियद्भिरपरैः कृत्यं त्यक्त्वा सत्वं सहोद्भवम् ॥२०॥ पुष्पारेरवतीर्णस्य चक्रुर्वलयरोधनम् । भूयो युद्धमभूदुग्रं प्रान्तविधस्तकिंकरम् ॥ २०१॥ सभावापीविमानानामुद्यानोत्तमसमनाम् । चूर्णितानां तदाघातैर्भूमयः केवलाः स्थिताः ॥२०२॥ पादमार्गप्रदेशेषु ध्वस्तेषु वनवेश्मसु । महारथ्या यथा जाताः शुष्कसागरसन्निभाः ॥ २०३ ॥ भग्नोत्तुंगापणाश्रेणिः पातिताऽनेककिंकरः । बभूव राजमार्गोपि महासंग्रामभूसमः ॥ २०४ ॥ पतद्भिस्तोरणैस्तुंगैः कंपितध्वजपंक्तिभिः । बभूवांवरमुत्पातादिव भ्रश्यत्सुरायुधम् ॥ २०५ ॥ जंघावेगात्समुद्यद्भी रजोभिर्वहुवर्णकैः । इंद्रायुधसहस्राणि रचितानीव पुष्करे ॥ २०६ ॥ पादावष्टंभभिन्नेषु भूभागेषु निमज्जताम् । बभूव गृहशैलानां पातालेष्विव निश्वनः ॥२०७॥ दृष्या कंचित्करेणान्यं कंचित्पादन किंकरम् । उरसा कंचिदंसेन वातेनान्यं जघान सः ॥२०८॥ आल्लीयमानमात्राणां किंकराणां सहस्रशः । पततामुत्करे रथ्या जाता पूरसमागता ॥ २०९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy