________________
पद्मपुराणस ।
षट्चत्वारिंशत्तमं पर्व । आकुलो मंत्रिभिः साकं महामंत्रविशारदः । विभीषणः समारेभे निरूपयितुमीदृशम् ॥ १९३ ।। स हि रावणराष्ट्रस्य धुरं धत्ते गतश्रमः । समस्तशास्त्रबोधां बुधौतनिर्मलमानसः ।। १९४ ॥ रावणस्य हि तत्तुल्यो न हितो विद्यते परः । तस्य सर्वोपयोगेन चिन्तनीये स वर्तते ।। १९५ ।। उवाचासावहो वृद्धा राजनीत्थं व्यस्थिते । उपाक्षपत कर्तव्यमस्माकमधुनोचितम् ॥ १९६ ॥ विभीषणोदितं श्रुत्वा संभिन्नमतिरभ्यधात् । अतः परं वदामः किं गतं कार्यमकार्यताम् ॥ १९७॥ स्वामिनो दशवक्त्रस्य सहसा दैवयोगतः । दक्षिणः पतितो बाहुः खरदूषणसंज्ञकः ।। १९८ ।। विराधितोऽपरः कोऽपि कारणं यो न कस्यचित् । सोऽयं गोमायुतां भुक्त्वा केसरित्वं समाश्रितः ।। भव्यतां पश्यतामुष्य साधुकर्मोदयादिमाम् । लक्ष्मणस्याहवे यातो बन्धुतां यत्सुचेष्टितः || २०० || एतेऽपि बलिनः सर्वे मानिनः कपिकेतवः । भवन्त्याक्रान्तितो वश्या निर्भृत्यास्तु न जातुचित् ॥ अमीषामन्य आकारो मानसं त्वन्यथा स्थितम् । भुजंगानामिवात्यन्तमन्तरे दारुणं विषम् २०२ नेता वानरमौलीनामनंगकुसुमापतिः । न्यक्षेण भजते पक्षं सुग्रीवस्य मरुत्सुतः ॥ २०३ ॥ ततः पंचमुखोऽवोचद्विधायानादरस्मितम् । खरदूषणवृत्तेन गणितेनेह को गुणः ॥ २०४ ॥ वृत्तान्तेनामुना कस्य संत्रासोऽकीर्तिरेव च । भवत्येव हि शूराणामीदृशी समरे गतिः ॥ २०५ ॥
Jain Education International
२८०
For Private & Personal Use Only
www.jainelibrary.org