________________
१७३
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व ।
न चात्र काचिदापत्ते नंद्यावर्ते क्रमागते । भरतस्य वशो भूत्वा कुरु राज्यं यथेप्सितं ॥ १५१ ॥ अतिवीर्यस्ततोवोचन्न मे राज्येऽधुना स्पृहा । राज्येन मे फलं दत्तमधुनान्यत्र सज्ज्यते ॥१५२॥ आसीन्मया कृता वांछा हिमवत्सागरावधि । जेतुं वसुंधरा येन विभ्रता मानमुत्तमं ।। १५३ ॥ सोहं स्वमानमुन्मूल्य भूत्वा सारविवर्जितः । कुर्यं प्रणतिमन्यस्य कथं पुरुषतां दधत् ॥ १५४ ॥ षट् खंडा यैरपि क्षोणी पालितेयं महानरैः । न तृप्तास्तेप्यहं ग्रामैः पंचभिस्तु किमेत कैः ।। १५५ ।। जन्मांतरकृतस्यास्य चलितां पश्य कर्मणः । छायाहानिमहं येन राहुर्णेदुरिवाहृतः ।। १५६ ।। मानुष्यकमिदं जातं सारमुक्तं मयाधुना । सुराणामपि वार्तेषा किमन्यत्राभिधीयतां ॥ १५७ ॥ सोहं पुनर्भवाद्भीरुस्त्वया संप्रति बोधितः । तथाविधां भजे चेष्टां यया मुक्तिरवाप्यते || १५८ ।। इत्युक्त्वा क्षमयित्वा तं परिवर्गसमन्वितं । गत्वा केसरिविक्रांतो मुनिं श्रुतिधरश्रुतिं ॥ १५९ ॥ कराब्जकुड्मलांकेन विधाय शिरसा नति । जगाद नाथ वांछामि दीक्षां दैगंबरीमिति ॥ १६० ॥ आचार्येणैवमित्युक्ते परित्यज्यांशुकादिकं । केशलुंचं विधायासौ महाव्रतधरोऽभवत् ।। १६१ ॥ आत्मार्थनिरतस्त्यक्तरागद्वेषपरिग्रहः । विजहार क्षितिं धीरो यत्रास्तमितवानसौ ।। १६२ ॥ क्रूरश्वापदयुक्तेषु गहनेषु वनेषु सः । चकार वसतिं निर्भीर्गह्वरेषु च भूभृतां ।। १६३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org