________________
पद्मपुराणम्।
एकोनचत्वारिंशत्तमं पर्व कुमारे च हृता माता म्लेच्छेन विषयाहतौ । दुःखं च परमं प्राप्तः सर्वबंधुविवर्जितः ॥ २१५ ॥ ततस्तापसतां प्राप्य कृत्वा बालतपः परं । ज्योतिर्लोकं समारुह्य नाना वह्निप्रभोऽभवत् ॥२१६।। अनंतवीर्यनामाथ केवली सेवितः सुरैः । इत्यंतेवासिना पृष्टो धर्मचिंतागतात्मना ।। २१७ ।। मुनिसुव्रतनाथस्य तीर्थेऽस्मिन् भवता समः । कोन्योनुभविता भव्यो लोकस्योत्तरकारणं २१८ सोवोचन्मयि निर्वाणं गतेऽत्र श्रमणक्षितौ । देशभूषण इत्येको द्वितीयः कुलभूषणः ॥ २१९ ॥ भवितारौ जगत्सारौ केवलज्ञानदर्शिनौ । यो समाश्रित्य लोकोयं तरिष्यति भवार्णवं ॥ २२० ॥ सोऽपि वह्निप्रभस्तस्माच्छ्रुत्वा केवलिनो मुखात् । अवस्थानं निजं यातो दध्यो केवलिभाषितं । अन्यदावधिना ज्ञात्वा योगिनाविह नौ गिरौ । अनंतवीर्यसर्वज्ञमिथ्यावाक्यं करोम्यहं ॥२२२।। एवमुक्त्वाभिमानेन परमेणातिमोहितः । आगनः पूर्ववैरेण कर्तु परमुपद्रवं ।। २२३ ।। चरमांगधरं दृष्ट्वा स भवंतमतिद्रुतं । सुरेंद्रकोपभीत्या च तिरोधानमुपागतः ॥ २२४ ॥ नारायणसमेतेन प्रातिहार्ये त्वया कृते । केवलज्ञानमस्माकं जातं घातिपरिक्षये ॥ २२५ ॥ इति गत्यागतीः श्रुत्वा प्राणिनां वैरकारिणां । वैरानुबंधमुत्सृज्य स्वस्था भवत जंतवः ॥२२६॥ महापूतमिति श्रुत्वा वचनं केवलीरितं । मुहुः सुरासुरा नेमुस्तं भीता भवदुःखतः ॥ २२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org