________________
૨૦૨
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । भद्रे कोहं प्रसादस्य प्रसीद त्वं ममोत्तमे । भजस्व भक्तिमेषोहं यावज्जीवं करोमि ते ॥२०२॥ इत्युक्त्वालिंगितुं क्षिप्रं तं प्रसारितबादुकं । अगदीत्पाणिना कन्या वारयंती विशारदा ॥२०३॥ न वर्तते इदं कर्तुं कन्याहं विधिवर्जिता । पृच्छाव मातरं गत्वा गृहेऽस्मिन् दृश्यतोरणे ॥२०४॥ परा कारुण्ययुक्तेयं भवतः सेमुषी यथा । एतां प्रसादयावश्यं तुभ्यमेषा ददामि मां ॥ २०५ ॥ एवमुक्तस्तया साकं त्वरया व्याकुलक्रमः । वेश्माविशद्विलासिन्याः सवितर्यस्तमागते ।। २०६ ॥ तत्कथाकृष्टनिःशेषहषीकविषयो ह्यसौ । किञ्चिद्वेत्तिस्म नोपायं विशत्वारीमिव द्विपः ॥ २०७ ॥ न श्रृणोति स्मरग्रस्तो न जिघ्रति न पश्यति । न जानात्यपरस्पर्श न विभेति न लज्जते ॥२०८।। आचार्य मोहतः कष्टमनुतापं प्रपद्यते । अंधो निपतितः कूपे यथा पन्नगसेविते ॥ २०९ ॥ वेश्याचरणयोश्चासौ कृत्वा विलुठितं शिरः। याचते कन्यका पूर्वसंज्ञितश्चाविशन्नृपः ॥ २१० ॥ स्थापितो बंधयित्वाऽसौ राज्ञा नक्तं समीक्षितः । खलीकारं प्रभाते च प्रकटं प्रापितः परं २११ ततोऽपमाननिर्दग्धः परं दुःखं समुद्वहन् । भ्राम्यन्महीं मृतः क्लेशयोनिषु भ्रमणं स्थितः २१२ ततःकर्मानुभावेन मनुष्यभवमागतः । दारिद्रयपंकनिमग्नं जनादरविवर्जितं ॥२१३ ॥ गर्भस्थ एव चैतस्मिन् विदेश जनको गतः । उद्वेजितः कुटुंबिन्या कलहऋरवाक्यया ॥२१४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org