SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३५ अष्टाविंशतितमं पर्व । ततो धनुर्ग्रहप्रांते विशाला रचितावनिः । स्वयंवरार्थमाहूताः पार्थिवा सकलाः क्षितौ ॥ २०६॥ प्रेषितः कोशलां दूतः पद्माद्याः समुपागताः । मातृपित्रादिसंयुक्ता जनकेनाभिपूजिताः ||२७|| ततो हर्म्यतले कांते स्थिता परमसुंदरी । कन्या सप्तशतांतस्था सीता शूरभटावृता ॥ २०८ ॥ प्रांतेषु सर्वसामंता वेश्मनोऽस्यावतस्थिरे । कुर्वाणा विविधां लीलां महाविभववर्तिनः ॥ २०९ ॥ ततः स्थित्वा पुरस्तस्या कंचुकी सुबहुश्रुतः । जगाद तारशब्देन हेमवेत्रलताकरः || २१० ॥ राजपुत्रि परीक्षस्व पद्मोसौ पद्मलोचनः । अयोध्याधिपतेराद्यः पुत्रो दशरथश्रुतेः ॥ २११ ॥ लक्ष्मीवान् लक्ष्मणश्चायमनुजोस्य महाद्युतिः । भरतोयं महाबाहुः शत्रुघ्नोयं सुचेष्टितः || २१२ || सुतैर्दशरथोऽमीभिर्गुणसागरमानसैः । वसुधां शास्ति निर्दग्धभयांकुरसमुद्भवां || २१३ ।। हरिवाहननामायं धीमानेष धनप्रभः । अयं चित्ररथः कांतो दुर्मुखोयं प्रभाववान् ॥ २१४ ॥ श्रीसंजयो जयो भानुः सुप्रभो मंदरो बुधः । विशालः श्रीधरो वीरो बंधुर्भद्रवलः शिखी ।। २१५ ।। एतेऽन्ये च महासत्वा महाशोभासमन्विताः । विशुद्धवंशसंभूताचंद्र निर्मलकांतयः ॥ २१६ ॥ कुमाराः परमोत्साहा गुणभूषणधारिणः । महाविभवसंपन्ना भूरिविज्ञानकोविदाः || २१७ ॥ गजोयमस्य शैलाभस्तुरंगोस्यायम्मुन्नतः । रथोस्यायं महाभागो भटोस्यायं कृताद्भुतः || २१८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy