________________
पद्मपुराणम् ।
१९८
एकोनचत्वारिंशत्तमं पर्व ।
च्युतौ तौ सुंदरौ नाकाज्जातौ पद्मवतीसुतौ । नाम्ना रत्नरथोऽन्यश्च विचित्ररथसंज्ञकः || १५०|| उत्पन्नः कनकाभायां ज्योतिर्देवः परिच्युतः । अनुंधर इति ख्यातिं गुणैस्ते चावनिं गताः १५१ राज्यं पुत्रेषु निक्षिप्य षदिनानि जिनालये । कृतसंलेखनः सम्यक् स्वर्गं यातः प्रियवतः १५२ राज्ञान्यस्य सुता नाम्ना श्रीप्रभा श्रीप्रभेव सा । लब्धा रत्नरथेनेष्टा कनकाभांगजेन च ॥ १५३ ॥ लब्धा रत्नरथेनैषा ततो द्वेषमुपागतः । अनुंधरो महीं तस्य विनाशयितुमुद्यतः ॥ १५४ ॥ ततो रत्नरथेनासौ विचित्रस्यंदनेन च । निर्जित्य समरे पंच दंडान्प्राप्य निराकृतः ।। १५५ ।। खलीकारात्ततः पूर्वजन्मवैराच्च कोपतः । जटावल्कलधारी स तापसोऽभूद्विषवित् ॥ १५६ ॥ भुक्त्वा राज्यं चिरं कालं सोदरौ नु प्रबोधिनौ । प्रवृज्य सुतपः कृत्वा स्वर्गलोकमुपागतौ १५७ तौ महातेजस तत्र सुखं प्राप्य सुरोचितं । च्युतौ सिद्धार्थनगरे क्षेमंकरमहीभृतः ।। १५८ ।। उत्पन्नौ विमलाख्यायां महादेव्यां सुसुंदरौ । देशभूषण इत्याद्यो द्वितीयः कुलभूषणः ।। १५९ ।। विद्यार्जनोचितौ तौ च क्रीडतौ तिष्ठतो गृहे । नाना सागरघोषश्च विद्वान् भ्राम्यन्नुपागतः १६० राज्ञा च संगृहीतस्य तस्य पार्श्वेऽखिलाः कलाः । शिक्षितौ तावुदारेण विनयेन समन्वितौ १६१ स्वजनेनैव तौ कंचिज्जानीतस्तद्गतात्मकौ । कर्तव्यं हि तयोः सर्व विद्याशालगतं तदा ||१६२ ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org