________________
पद्मपुराणम् ।
१८१
अष्टत्रिंशत्तमं पर्व ।
नानानिर्यूह संपन्नं विचित्रध्वजशोभितं । शुभ्राभ्रराशिसंकाशं प्राप शत्रुदमालयं ।। ८२ ॥ भास्वद्भक्तिशताकीर्णं तुंगप्राकारयोजितं । द्वारं तस्य डुढौकेसौ शक्रचापाभतोरणं ।। ८३ ।। शस्त्रिवृंदावृते तस्मिन्नानोपायनसंकुले । निर्गच्छद्भिर्विशद्भिश्व सामंतैरविसंकटे ॥ ८४ ॥ द्वाःस्थेन प्रविशनेष भाषे सौम्यया गिरा । कस्त्वमज्ञापितो भद्र विशसि क्षितिपालयं ।। ८५ ।। सोवोचद्रष्टुमिच्छामि राजानं गच्छ वेदय । स्वपदेऽन्यमसौ कृत्वा गत्वा राज्ञे न्यवेदयत् ॥ ८६ ॥ दिक्षुस्त्वां महाराज पुमानिंदीवरप्रभः । राजीवलोचनो श्रीमान् सौम्यो द्वारेऽवतिष्ठते ॥ ८७ ॥ अमात्यवदनं वीक्ष्य राजावोचद्विशत्विति । ततः सुतः सुमित्रायाः प्रतीहारोदितो ऽविशत् ॥८८॥ तं दृष्ट्वा सुंदराकारं सुगंभीरापि सा सभा । समुद्रमूर्तिवत्क्षोभं गता शीतांशुदर्शने ॥ ८९ ॥ प्रणामरहितं दृष्ट्वा विकटांसं सुभासुरं । किंचिद्विकृतचेतस् कस्तमपृच्छदरि॑िद॒मः ।। ९० ।। कुतः समागतः कस्त्वं किमर्थं क कृतश्रमः । ततो लक्ष्मीधरोऽवोचत्प्रावृषेण्यघनध्वनिः ॥ ९१ ॥ वाह्योहं भरतस्यापि महीहिंडनपंडितः । विद्वान् सर्वत्र ते भक्तुं दुहितुर्मानमागतः ॥ ९२ ॥ अभग्नमानश्रृगेयं दुष्टकन्यागवी त्वया । पोषिता सर्वलोकस्य वर्तते दुःखदायिनी ॥ ९३ ॥ सोवोचद्य मया मुक्तां शक्तः शक्ति प्रतीक्षितं । कोसौ न जितपद्माया मानस्य ध्वंसको भवेत् ॥ ९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org