________________
ર
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। कृष्णसर्पो मृतस्तस्य दिग्धांगो विषलालया। कंठे निधापितस्तेन ग्रावदारुणचेतसा ॥ ६४॥ यावदेषोऽपनीतो न प्रदातुर्मम केनचित् । तावन्न संहरेद्योगमिति ध्यात्वा मुनिः स्थितः ॥६५॥ अतीते गणरात्रे च पुनस्तेनैव वर्त्मना । निष्कामन्पार्थिवोऽपश्यत्तदवस्थं महामुनि ॥ ६६ ॥ ऋजुनैव च रूपेण गत्वा निकटतां भृशं । अपच्छदपनेतारं किमेतदिति सोवदत् ॥ ६७ ॥ नरेंद्र पश्य केनापि नगरावासमार्गिणा | योगस्थस्य मुनेरस्य कंठे सपः समर्पितः ॥ ६८॥ यस्य सर्पस्य संपर्कोद्विग्रहस्य समुद्गतं । प्रतिक्विं शितिक्लिन्नं दुर्दर्शमतिभीषणं ॥ ६९ ॥ मुनि निःप्रतिकर्माणं दृष्ट्वा राजा तथाविधं । प्रणम्याक्षमयद्यातास्ते च स्थानं यथोचितं ॥७॥ ततः प्रभृति शक्तोसौ कर्तुं भक्तिमनुत्तमां । निरंबरमुनींद्राणां वारितोपद्रवक्रियः ॥ ७१ ॥ देवी विटपरिव्राजी ज्ञात्वान्यविषयं नृपं । इदं क्रोधपरीतेन विधातुमभिवांछितं ॥ ७२ ॥ जीवितस्नेहमुत्सृज्य परदुःखहितात्मकः । निग्रंथरूपभृद्देव्या संपर्कमभजत्पुनः ॥ ७३ ॥ ज्ञात्वा तदीदृशं कर्म राज्ञातिक्रोधमीयुषा । अमात्याधुपदेशं च स्मृत्वा निग्रंथनिंदनं ॥ ७४ ॥ क्रूरकर्मभिरन्यैश्च प्रेरितः श्रमणाहितैः । आज्ञापयन्महर्षीणां यंत्रनिष्पीडने नरान् ।। ७५ ॥ गणाधिपसमेतोसौ समूहो वरवाससां । यंत्रनिष्पीडनैर्नीतः पंचतां पापकर्मणां ।। ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org