________________
पद्मपुराणम्।
एकचत्वारिंशत्तमं पर्व । वाह्यभूमिगतस्तत्र मुनिरेकः समावजन् । इत्यवार्यत लोकेन केनचित्करुणावता ॥ ७७ ॥ भो भो निग्रंथ मागास्त्वं पूर्व ग्रंथ्यमाश्रय । यंत्रणापीड्यसे तत्र द्रुतं कुरु पलायनं ॥ ७८ ॥ यंत्रेषु श्रमणाः सर्वे राज्ञा कुद्धेन पीडिताः । मागास्त्वमप्यवस्थां तां रक्ष धर्माश्रयं वपुः ॥७९॥ ततः क्षणमसौ संघमृत्युदुःखेन शल्यितः । वज्रस्तंभ इवाकंपस्तस्थावव्यक्तचेतनः ॥ ८॥ अथास्य शतदुःखेन प्रेरितः शमगव्हरात् । निरंबरमहीध्रस्य निरगात्कोधकेसरी ॥ ८१ ॥ रक्ताशोकप्रकाशेन निखिलं तस्य चक्षुषः । तेजसा विहितं व्योम संध्यामयमिवाभवत् ॥८२॥ कोपेन तप्यमानस्य मुनः सर्वत्र विग्रहे । प्रस्वेदविंदवो जाताः प्रतिबिंबितविष्टपाः ॥ ८३।। ततः कालानलाकारो बहुलः कुटिलः पृथुः । हाकारेण मुखात्तस्य निरगात्पावकध्वजः ॥ ८४॥ अनुलग्नश्च तस्याग्निरुज्जगान निरंतरं । कृतं नभस्तलं येन निरिंधनविदीपितं ॥ ८५ ॥ उल्काभिर्नु जगद्व्याप्तं ज्योतिर्देवाः पतंति नु । महाप्रलयकालो नु वह्निदेवा नु रोषिताः॥८६॥ हा हा मातः किमतेन्न तापोयमतिदुस्सहः । चक्षुरुत्पाद्यते दीर्घसंदंशैरिव वेगिभिः ॥ ८७ ॥ मूर्तिनिर्मुक्तमेवैतद्गगनं कुरुते ध्वनि । वंशारण्यमिवोद्दीप्तं जीविताकर्षणोचितं ।। ८८ ॥ यावदेव ध्वनिलोके वर्ततेत्यंतमाकुलः । वह्रिस्तावदयं देशमनयद्भस्मशेषतां ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org