________________
पद्मपुराणम् ।
षडविंशतितम पर्व। जलं प्रार्थयमानानां तृष्णानां प्रदीयते । ताम्रादिकललं तेन दग्धदेहाः सुदुःखिताः ॥ ९० ॥ ब्रुवते नास्ति तृष्णा न इत्यतोऽपि वलादमी । पाय्यंते तदतिक्रूरैः संदंशव्यावृताननः ॥ ९१ ॥ प्रयात्यभूतले भूयो वक्षस्याक्रम दीयते । तेषां निर्दग्धकंठानां दह्यते हृदयं पुनः॥९२ ॥ निष्कामंति परीतंति निर्भिद्य जठरं सह । ज्वलता कललेनाशु तेषां कलुषकर्मणां ॥ ९३ ॥ परस्परकृतं दुःखं तथा भवनवासिभिः । नरका यत्प्रपद्यते कस्तद्वर्णयितुं क्षमः ॥ ९४ ॥ इति ज्ञात्वा महादुःखे नरके मांससंभवं । वर्जनीयं प्रयत्नेन विदुषा मांसभक्षणं ॥ ९५ ॥ अत्रांतरे जगादेवं कुंडलस्त्रस्तमानसः । नाथाणुव्रतयुक्तानां का गतिदृश्यते वद ॥९६॥ गुरुरूचे न यो मांस खादत्यतिव्रतः । तस्य वक्ष्यामि यत्पुण्यं सम्यग्दृष्टेविशेषतः ॥ ९७ ॥ उपवासादिहीनस्य दरिद्रस्यापि धीमतः । मांसभुक्तनिवृत्तस्य सुगतिर्हस्तवर्तिनी ॥ ९८ ॥ यः पुनः शीलसंपन्नो जिनशासनभावितः । सोऽणुव्रतधरः प्राणी सौधर्मादिषु जायते ।। ९९ ॥ अहिंसा प्रवरं मूलं धर्मस्य परिकीर्तितं । सा च मांसानिवृत्तस्य जायतेत्यंतनिर्मला ॥ १० ॥ दयावान् संगवान् योऽपि म्लेच्छश्चांडाल एव वा । मधुमांसानिवृत्तःसन् सोऽपि पापेन मुच्यते १०१ मुक्तमात्रः स पापेन पुण्यं गृह्णाति मानवः । जायते पुण्यबंधेन सुरः सन्मनुजो यथा ॥१०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org