SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ पंद्मपुराणम् । षइविंशतितम पर्व। अधस्तस्याः क्षितेरन्या दारुणाः षट्च भूमयः । नारका यासु पापस्य भुंजते कर्मणः फलं ॥७७॥ कुरूपा दारुणारावा दुःस्पशो ध्वांतपूरिताः । उपमोज्झितदुःखाना कारणीभूतविग्रहाः ॥ ७८ ॥ कुंभीपाकाख्यमाख्यातं नरकं भीमदर्शनं । नदी वैतरणी घोरा शाल्मलीकरकंटकाः ॥ ७९ ॥ असिपत्रवनच्छन्नाः शुरधाराश्च पर्वताः । ज्वलदग्निनिभास्तीक्ष्णलोहकीला निरंतरा ॥ ८ ॥ तेषु ते तीबदुःखानि प्राप्नुवंति निरंतरं । प्राणिनो मधुमांसादिघातकाश्चासुधारिणां ॥ ८१॥ नास्त्यांगुलमात्रोऽपि प्रदेशस्तत्र दुःखितः । क्रियते नारकैर्यत्र निमेषमपि विश्रमः ॥ ८२ ॥ प्रच्छन्नमि तिष्ठाम इति ध्यात्वा पलायिताः । हन्यते निर्दयैरयैर्नारकैरमरैश्च ते ॥ ८३॥ ज्वलदंगारकुटिले दग्धा मत्स्या इवानिले । विरसं विहिताक्रंदा विनिश्चित्य कथंचन ॥ ८४ ॥ नारकाग्निभयग्रस्ताः प्राप्ता वैतरणीजलं । चंद्रक्षारोर्मिभिर्भूयो दाते वह्नितोऽधिकं ।। ८५ ॥ असिपत्रवनं याताश्छायाप्रत्याशया द्रुतं । पतद्भिस्तत्र दार्यते चक्रखड़गदादिभिः ॥८६॥ विच्छिन्ननासिकाकर्णस्कंधजंघादिविग्रहाः । कुंभीपाके नियुज्यंते चांतशोणितवर्षिणः ॥ ८७ ॥ प्रपीड्यंते च यंत्रेषु क्रूरारावेषु विहला । पुनः शैलेषु भिद्यते तीक्ष्णेषु विरसस्वराः ॥ ८८ ॥ उल्लंघ्यंतेऽतितुंगेषु पादपेष्वंधकारिषु । ताज्यंते मुद्राघातैमहद्भिर्मस्तके तथा ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy