________________
पद्मपुराणम् ।
पंचचत्वारिंशत्तम पर्व। निश्चलश्च क्षणं स्थित्वा समुच्छ्स्यायतं भृशम् । कंबुपर्वतमारुह्य दिशाचक्रं व्यलोकयत् ॥ ७० ॥ ततः समुद्रवातेन शिशिरत्वमुपेयुषा । अपरीतश्रमस्वेदसमासश्वासदुःखितः ॥ ७१॥ यथा स्वन्वेषणं कर्तुं गतास्तेऽन्विष्य शक्तितः । राघवस्यान्तिकं प्राप्ताः प्रणष्टवदनौजसः ॥७२॥ तेषां ज्ञात्वा मनः शून्यं महीविन्यस्तचक्षुषाम् । पद्मो जगाद दीर्घोष्णं निश्वस्य म्लानलोचनः ७३ निजां शक्तिममुंचद्भिर्भवद्भिः साधुखेचराः । अस्मत्कार्ये कृतो यत्नो दैवं तु प्रतिकूलकम् ॥ ७४॥ तिष्ठतः स्वेच्छयेदानी यात वा स्वं समाश्रयम् । वाडवास्यां गतं रत्नं करात्कि पुनरीक्ष्यते ७५ नूनं सर्व कृतं कर्म प्रापणीयं फलं मया । तत्कर्तुमन्यथा शक्यं न भवद्भिर्मयापि वा ॥ ७६ ॥ विमुक्तं बन्धुभिः कष्टं विकष्टं वनमाश्रितम् । अनुकंपा न तनापि जनिता दैवशत्रुणा ॥ ७७ ॥ मन्ये यथानुबन्धेन लग्नोऽयं विधिरुद्धतः । तथैतस्मात्परं दुःखं किं नामान्यत्करिष्यति ।। ७८ ॥ परिदेवनमारब्धे कर्तुमेवं नराधिपे । धीरं विराधितोऽवोचत्परिसान्त्वनपण्डितः ॥ ७९ ॥ विषादमतुलं देव किमेवमनुसेवसे । स्वल्पैरेव दिनैः पश्य प्रियामनघविग्रहाम् ॥ ८ ॥ शोको हि नाम कोऽप्येष विषभेदो महत्तमः । नाशयत्याश्रितं देहं का कथान्येषु वस्तुषु ॥८१॥ तस्मादवलम्ब्यतां धैर्य महापुरुषसेवितम् । भवद्विधा विवेकानां भवनं क्षेत्रमुत्तमम् ॥ ८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org