________________
पद्मपुराणम् ।
२६३
पंचचत्वारिंशत्तमं पर्व |
जीवं पश्यति भद्राणि धीरश्विरतरादपि । ग्रही हस्वमतिर्भद्रं कृच्छ्रादपि न पश्यति ॥ ८३ ॥ कालो नैष विषादस्य दीयतां कारणे मनः । उदासीनमिहानर्थं कुरुते परमं पुरा ॥ ८४ ॥ विद्याधरमहाराजे निहते खरदूषणे । अर्थान्तरमनुप्राप्तं दुरंतमवधार्यताम् ॥ ८५ ॥ किष्किधेन्द्रेन्द्रजिद्वीरौ भानुकर्णस्तथैव च । त्रिशिराः क्षोभणो भीमः क्रूरकर्मा महोदरः ||८६ ॥ एवमाद्या महायोधा नानाविद्यामहौजसः । यास्यन्ति सांप्रतं क्षोभं मित्रस्वजनदुःखतः ।। ८७ ।। नानायुद्धसहस्रेषु सर्वे संप्राप्तकीर्त्तयः । विजयार्धनगावा सखगेन्द्रेणाप्यसाधिताः ॥ ८८ ॥ पवनस्यात्मजः ख्यातो यस्थ वानरलक्षितम् । केतुं दूरात्समालोक्य विद्रवति द्विषां गणः ॥ ८९ ॥ तस्याभिमुखतां प्राप्य दैवयोगात्सुरा अपि । त्यजसि विषये बुद्धिं स हि कोपि महायशः ॥ ९० ॥ तस्मादुत्तिष्ठ तत्स्थानमलंकाराख्यमाश्रिताः । भामंडलस्वसुवार्ता स्वस्थीभूता लभामहे ॥ ९१ ॥ तद्धि नः पुरमायातमन्वयेन रसातले । तत्र दुर्गे स्थिताः कार्य चिन्तयामो यथोचितम् ॥ ९२ ॥ इत्युक्ते चतुरैरश्वैश्वतुर्भिर्युक्तमुत्तमम् । भास्वरं रथमारुह्य प्रथितौ रघुनन्दनौ ॥ ९३ ॥ शुशुभाते तदात्यन्तं न तौ पुरुषसत्तमौ । सीतया रहितौ सम्यग्दृष्टिर्बोधशमाविव ॥ ९४ ॥ चतुर्विधमहासैन्यसागरेण समावृतः । त्वरावानग्रतस्तस्थौ चन्द्रोदरनृपात्मजः ।। ९५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org