________________
पद्मपुराणम् ।
सप्तचत्वारिंशत्तमं पर्व ।
किमेतदितिप्रष्टश्च तस्मै कश्चिदवेदयत् । सीताया हरणं ध्वस्तौ जटायुखरदूषणौ ।। ६ ॥ ततोऽभवद्भृशं दुःखी खरदूषणमृत्युतः । किष्किंधाधिपतिश्चितामेतामगमदाकुलः ॥ ७ ॥ कष्टं चितितमेतन्मे किलास्मै बलशालिने । निवेद्य दायिताशोकं मोक्षामीति महाशया ॥ ८ ॥ विधानदंतिना सोऽपि कथमाशामहाद्रुमः । भग्नो मम विपुण्यस्य कथं शान्तिर्भविष्यति ॥ ९ ॥ किमंजनासुतं गत्वा सादरं संश्रयाम्यहम् | मद्रूपधारिणो येन मरणं स करिष्यति ॥ १० ॥ उद्योगेन विमुक्तानां जनानां सुखिता कुतः । तस्मादुःखविनाशय श्रयाम्युद्योगमुत्तमम् ॥ ११॥ अथवानेकशो दृष्टोऽनादरो स करिष्यति । नवोऽनुरागवंद्यो हि चन्द्रो लोकस्य नान्यदा ||१२|| तस्मान्महाबलं दीप्तं महाविद्याविशारदम् । रावणं शरणं यामि स मे शान्ति करिष्यति ॥ १३ ॥ अजानानो विशेषं वा क्रोधवोधितमानसः । दशाननः कदाचिन्नौ हंतुं वांच्छेदुभावपि ॥ १४ ॥ मंत्रदोषसत्कारं दानं पुण्यं स्वशूरताम् । दुःशीलत्वं मनोदाहं दुर्मित्रेभ्यो न वेदयेत् ॥ १५ ॥ तस्माद्येनैव संग्रामे निहितः खरदूषणः । तमेव शरणं यामि स मे शान्ति करिष्यति ॥ १६ ॥ तुल्यव्यसनताहेतोः कालो यमुपसर्पति । सद्भावं हि प्रपद्यन्ते तुल्यावांछा जना भुवि ॥ १७ ॥ एवं विमृश्य संजातचारुबुद्धिः समं ततः । प्रजिघायादराद्भूतं प्रियं कर्तुं विराधितम् ।। १८ ।।
1
Jain Education International
२८४
For Private & Personal Use Only
www.jainelibrary.org