________________
पद्मपुराणम्।
सप्तचत्वारिंशत्तम पर्व । सुग्रीवागमने तेन ज्ञापितेऽभूद्विराधितः । सविस्मयः सतोषश्च चकार च मनस्यदः ॥ १९ ।। चित्रं सुग्रीवराजो मां संसेव्यः सन्निषेधते । अथवाश्रयसामर्थ्यात्पुंसां किं नोपजायते ॥२०॥ सतो दुंदुभिनिर्घोष समाकर्ण्य धनोपमम् । पातालनगरं जातं भयाकुलमहाजनम् ॥ २१ ॥ ततो लक्ष्मीधरोऽपृच्छदनुराधांगसंभवम् । वद तूयेनिनादोऽयं श्रूयते कस्य संहृतः ।। २२ ॥ सोऽनोचच्छूयतां देव महाबलसमन्वितः । नाथोऽयं कपिकेतूनां प्राप्तस्त्वां प्रेमतत्परः ।। २३ ॥ भ्रातारौ वालिसुग्रीवौ किष्किंधानगराधिपौ । तिग्मांशुरजसः पुत्रौ प्रख्याताववनाविमौ ॥२४॥ वालीति योऽत्र विख्यातः शीलशौर्यादिभिर्गुणैः । अभिमानमहाशैलो नानंसीद्दशवक्रकम् ॥१५॥ परं प्राप्य प्रबोधं स कृत्वा सुग्रीवसाच्छ्रियम् । तपोवनमुपाविक्षत्सर्वग्रन्थविवर्जितम् ॥२६॥ सुग्रीवोऽप्यभिसक्तात्मा सुतारायां श्रियान्वितः । राज्ये निःकंटके रेमे शचीयुक्तो यथा हरिः ॥२७॥ सुतो यस्यांगदाभिख्यः गुणरत्नविभूषितः । किष्किंधाविषये यस्य संकथान्यविवर्जिता ॥ २८॥ तयोरियं कथा यावद्वर्त्ततेऽनन्यचेतसोः । तावत्संप्राप्तः सुग्रीवः श्रीमत्पार्थिवकेतनम् ॥ २९ ॥ ज्ञातवानुमतिं प्राप्य विवेशे कृतमंगलः । राजाधिकृतलोकेन परमं दर्शितादरः ॥ ३० ॥ लक्ष्मीधरकुमाराद्यास्तं राजन् प्राप्तविस्मयाः । परिषस्वजिरे कान्त्या विकसद्वदनाम्बुजाः॥३१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org