________________
पद्मपुराणम् ।
२८६
सप्तचत्वारिंशत्तमं पर्व ।
उपविष्टाश्च विधिना जांबूनद महीतले । योग्यं संभाषणं चक्रुर मृतोपमया गिरा ।। ३२ ॥ निवेदितं ततो वृद्धैरिति पद्ममहीक्षिते । देव किष्किधन गरे सुग्रीवाख्योऽयमीश्वरः ॥ ३३ ॥ प्रभुर्महाबलो भोगी गुणवानतिसत्प्रियः । केनापि दुष्टमायेन खगेनानर्थमाहतः || ३४ ॥ एतस्याकृतिमाश्रित्य राज्यभोगं पुरं बलम् । सुतारां च गृहीतुं तां कोऽपि वांछति दुर्मतिः ॥ ३५ ॥ एतस्य वचनस्यान्ते रामस्तत्संमुखोऽभवत् । अचितयच्च मत्तोऽपि दुःखितो नाम विद्यते || ३६ || मायं सदृशो मन्ये यदि वाधरतां भजेत् । येनास्य दृश्यमानैकप्रतिपक्षेण बांधवम् ॥ ३७ ॥ rasi दुस्तरोऽत्यन्तं कथमेतद्भविष्यति । हानिरेवंविधस्यैषा मद्विधः किं करिष्यति ॥ ३८ ॥ सुमित्रातनयोऽपृच्छत्कृत्स्नं दुःखस्य कारणम् । सुग्रीवस्य मनस्तुल्यं धीरं जांबूनदश्रुतिम् ||३९|| aarsat मंत्रिणां मुख्यो जगाद विनयान्वितः । असत्सुग्रीवरूपस्य सत्सुग्रीवस्य चांतरम् ||४०|| राजन् सुदारुणानंगलता पाशवशीकृतः । रूपं रूपवशः कोऽपि समं कृत्वास्य मायया ॥ ४१ ॥ अज्ञातो मंत्रिवर्गस्य सर्वस्यात्मजनस्य च । सुग्रीवान्तः पुरं तुष्टः प्राविशत्पापचेतनः ॥ ४२ ॥ प्रविशतं च तं दृष्ट्वा सुताराहा परा सती । महादेवी जगादास्यसमुद्विग्ना निजं जनम् ॥ ४३ ॥ दुष्टविद्याधरः कोऽपि सुग्रीवाकृतिरेषकः । आयाति पापापूर्णात्मा चारुलक्ष्मणवर्जितः ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org