________________
पद्मपुराणम् ।
१३३
चतुस्त्रिंशत्तमं पर्व ।
शुभे कांश्चित्प्रतीक्षस्व दिवसान् धैर्यसंगतान् । म्लेच्छेन ग्रहणं किं मे पितरं पश्य मोचितं ॥ ५१ ॥ इत्युक्ते परमं तोषं ताते मुक्त इवागता । समुच्चसित सर्वांगा कन्यका छुतिपूरिता ॥ ५२ ॥ तत्र ते कानने रम्ये विचित्रालापविभ्रमाः । देवा इव सुखं तस्थुः स्वच्छंदा दिवसत्रयं ॥ ५३ ॥ ततः सुपूजने काले रजन्यां रामलक्ष्मणौ । ससीतौ रंभ्रमाश्रित्य निष्क्रांती काननालयात् ॥ ५४ ॥ विबुद्धा तानपश्यंती कन्या व्याकुलमानसा । हाकारमुखरा शोकं परमं समुपागता ॥ ५५ ॥ महापुरुष युक्तं ते स्तेनायित्वा मनो मम । गंतुं निद्रां समेताया निर्घृणति मनस्विनी ॥ ५६ ॥ कृच्छ्रन्नियम्य शोकं च वरवारणवर्तिनी । प्रविश्य कूवरं तस्थौ पूर्ववद्दीनमानसा ॥ ५७ ॥ ततः कल्याणमालाया रूपेण विनयेन च । हृतचित्ताः क्रमेणैते प्रापुर्वेकल निम्नगां ॥ ५८ ॥ उत्तीर्य विहितक्रीडास्तां सुखेन मनोहरा । बहून्देशानतिक्रम्य प्राप्ता विंध्यमहाटवीं ।। ५९ ।। स्कंधावारमहासार्थ परिक्षणेन वर्त्मना । प्रयातः पथिकैर्गोपैः कीनाशैश्च निवारिताः ॥ ६० ॥ क्वचित्सालादिभिर्वृक्षैर्लतालिंगितमूर्तिभिः । तद्वनं शोभतेत्यंतं स्वामोदं नंदनं यथा ॥ ६१ ॥ कचिदावेन निर्दग्धं प्रांतस्थितमहीरुहं । न शोभते यथा गोत्रं दुष्पुत्रेण कलंकितं ॥ ६२ ॥ अथावोचत्ततः सीता कार्णिकारवनांतरे । वामतोयं स्थितो ध्वांक्षो मूर्ध्नि कंटकितस्तरोः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org