________________
२१७
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व। आश्वास गच्छ विश्रब्धः कंपं मुंच सुखी भव । पश्य केयमरण्यानी क रामः सीतयान्वितः १०३ अवग्रहोस्मदीयः क क त्वमात्मार्थसंगतः। प्रबुद्धो दुःखसंबोधः कर्मणामिदमीहितं ॥ १०४ ॥ इदं कर्म विचित्रत्वाद्विचित्रं परमं जगत् । अनुभूतं श्रुतं दृष्टं यथैव प्रवदाम्यहं ॥ १०५॥ पक्षिणः प्रतिवोधार्थ ज्ञात्वाकूतं च सीरिणः । सुगुप्तिरवदत्स्वस्य सुगुप्तेः शमकारणं ॥ १०६ ॥ अचलो नाम विख्यातो वाणारस्यां महीपतिः। गिरिदेवीति जायास्य गुणरत्नविभूषिता १०७ त्रिगुप्त इति विख्यातो गुणनाम्नान्यदा मुनिः। पारणार्थ गृहं तस्याः प्रविष्टः शुद्धचेष्टितः १०८ स तया परमां श्रद्धां दधत्या विधिपूर्विकां । तर्पितः परमान्नेन स्वयं व्यापारमुक्तया ॥१०९॥ समाप्ताशनकृत्यश्च पादन्यस्तोत्तमांगया। पप्रच्छान्यापदेशेन स्वस्य पुत्रसमुद्भवं ॥ ११ ॥ नाथ सातिशयोयं मे गृहवासो भविष्यति । किं वा नेति प्रसादोयं क्रियतां निश्चयार्पणो॥१११।। वचोगुप्तिं ततो भित्वा राज्ञीभक्तानुरोधतः । तस्याश्चारुसमादिष्टं मुनिना तनयद्वयं ॥ ११२ ॥ त्रिगुप्तस्य मुनस्तस्य समादेशे नयत्स तौ । जातौ सुगुप्तिगुप्ताख्यौ पितृभ्यां तौ ततः कृतौ ११३ तौ च सर्वकलाभिज्ञौ कुमारश्रीसमन्वितौ । तिष्ठतौ विविधैर्भावै रममाणौ जनप्रियौ ॥ ११४ ॥ वृत्तांतोऽयं च संजातो गंधावत्यां महीपतेः । पुरोहितस्य सोमस्य प्रियायास्तनयद्वयं ॥ ११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org