________________
पद्मपुराणम् ।
२७६
षट्चत्वारिंशत्तम पर्व।
समंतकुसुमं तावन्नानातरुलताकुलम् । प्रमदाख्यं वनं सीता नीता नंदनसुन्दरम् ॥ १४१॥ स्थितं फुल्लनगस्यो दृष्ट्वा यद् दृष्टिवन्धनम् । उन्मादो मनसस्तुंगो देवानामपि जायते १४२ गिरिः सप्तभिरुद्यानैर्वेष्टितः स्वायतैः स च । रराज भद्रशालाद्यैः सूर्यावर्त इवोज्ज्वलः ॥१४३॥ एकदेशानहं तस्य विविधाद्भुतसंकुलान् । नामतः संप्रवक्ष्यामि तव राजन् निवोध्यताम् ॥१४४॥ प्रकीर्णकं जनानन्दं सुखसेव्यं समुच्चयं । चारणप्रियसंज्ञं च निवोध प्रमदं तथा ॥ १४५ ॥ प्रकीर्णकं महीपृष्ठे जनानन्दं ततः परम् । यत्रानिषिद्धसंचारो जनः क्रीडति नागरः॥ १४६ ॥ तृतीयेऽलं वने रम्ये मृदुपादपसंकुले । घनवृन्दप्रतीकाशे सरिद्वापीमनोहरे ॥ १४७॥ दशव्यामायता वृक्षा रविमार्गोपरोधिनः । केतकीयूथिकोपेतास्तांबूलीकृतसंगमाः ॥ १४८ ॥ निरुपद्रवसंचारे तत्रोद्यानसमुच्चये । विलसंति विलासिन्यः कचिद्देशे च सन्नराः ॥१४९ ॥ चारणप्रियमुद्यानं मनोज्ञ पापनाशनम् । स्वाध्यायनिरता यत्र श्रमणा व्योमचारिणः ॥ १५० ॥ तस्योपरि समारुह्य ययुः पृष्ठमनिंदितम् । सुखारोहणसोपानं दृश्यते प्रमदाभिधम् ॥ १५१ ॥ स्नानकोडोचिता रम्या वाप्योऽस्मिन् पद्मशोभिता । प्रपाः सभाश्च विद्यन्ते रचितानेकभूमयः॥ नारंगमातुलिंगायैः फलैर्यत्र निरंतराः । खर्जूरैर्नालिकेरैश्च तालैरन्यैश्च वेष्टिताः ॥ १५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org