________________
पद्मपुराणम् ।
षडविंशतितमं पर्व ।
ततः संवेगमापद्य गुरुणात्यनुमोदितः । कृत्वा परिग्रहत्यागं दीक्षां दैगंबरीमितः ॥ ३८ ॥ तथापि विहरन् क्षोणी सर्वसंगविवर्जितः । चित्तोत्सवां समुत्कंठां जातुचित्प्रतिपद्यत ॥ ३९ ॥ सरित्पर्वतदुर्गेषु श्मसानेष्वटवीषु च । वसन् स परमं चक्रे तपो विग्रहशोषणं ॥ ४० ॥ न यस्य जलधेव काले खेदं गतं मनः । हेमंते हिमपंकेन वपुर्यस्य न कंपितं ॥ ४१ ॥ पूष्णोर्यस्य करैरुयैस्तापोऽणुरपि नो कृतः । स्मृत्वा सीदत्सतां जातु स्नेहस्य किमु दुष्करं ॥४२॥ दह्यमानं तथाप्येष शरीरं विरहाग्निना । पुनर्विध्यापयज्जैन वचनोत्करसीकरैः || ४३ ॥ अर्धदग्धतरुच्छायं तत्तस्य वपुरागतं । रमणीस्मरणेनोग्रतपसा च निरंतरं ॥ ४४ ॥ आस्तां तावदिदं वक्ष्ये मंडितस्याधुनेहितं । कथा ह्येतरयोगेन स्थिता रत्नावली यथा ॥ ४५ ॥ अनरण्ये च राज्यस्ये वृत्तमेतन्निबुध्यतां । कथानुक्रमयोगेन कथ्यमानमतः श्रृणु ॥ ४६ ॥ स्थानं दुर्ग समाश्रित्य मंडितेन वसुंधरा । विरोधितानरण्यस्य कुशीलेन यथास्थितेः ॥ ४७ ॥ देशा उद्वासितास्तेन दुर्जनेन गुणा यथा । विरोधिताच सामंता कषाय इव योगिना ॥ ४८ ॥ नाशक्रोदनरण्यस्तं गृहीतुं क्षुद्रमप्यलं । आखोर्गिरिविलस्थस्य किं करोति मृगाधिपः ॥ ४९ ॥ नक्तं दिवमनुष्यत्स तत्परो जयचिंतया । अनादरेण शारीरमपि कर्म प्रपन्नवान् ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org