________________
पपुराणम् ।
षडविंशतितमं पर्व। ततोसौ बालचंद्रेण सेनान्या जात्वभाष्यत । उद्विग्न इव कस्मात्त्वं सततं नाथ लक्ष्यसे ॥५१॥ उद्वेगकारणं भद्र मम मंडितकः परं । इत्युक्ते बालचंद्रेण प्रतिज्ञेयं समाश्रिता ॥ ५२ ॥ राजन्न साधयित्वा तं पापं मंडितकं तव । सकाशं नागमिष्यामि व्रतमेतन्मया कृतं ॥ ५३ ॥ इति राज्ञः पुरः कृत्वा संगरं रोषमुद्वहन् । बलेन चतुरंगेण सेनानी गंतुमुद्यतः ॥५४॥ चित्तोत्सवासमायुक्तचित्तो मुक्तान्यचेष्टितः । प्रमादबहुलो भिन्नमूलभृत्पक्षतायतिः ॥ ५५ ॥ अज्ञातलोकवृत्तांतो मंडितः खंडितोद्यमः । हेलया बालचंद्रेण गत्वा बद्धो मृगो यथा ॥५६॥ गृहीतबलराज्यं तं निर्वास्य विषयात्कृती । बालचंद्रोऽनरण्यस्य समीपं पुनरागमत् ॥ ५७ ॥ ततस्तेन सुभृत्येन कृतसुस्थवसुंधरः । परं प्रमोदमापनोऽनरण्यः सुखमन्वभूत् ॥ ५८ ॥ शरीरमात्रधारी तु मंडितः पादचारकः । पर्यटन् धरणी दुःखी पश्चात्तापसमाहतः ॥ ५९ ॥ परिणाप्याश्रमपदं श्रमणानां महात्मनां । नत्वा च शिरसाचार्य धर्म पप्रच्छ भावतः ॥६०॥ दुःखितानां दरिद्राणां वर्जितानां च वांधवैः । व्याधिसंपीडितानां च प्रायो भवति धर्मधीः ६१ प्राज्ये यस्य भगवन् , शक्तिर्जतोन विद्यते । परिग्रहपरस्यास्य धर्मः कश्चिन्न विद्यते ॥६२॥ कथं वा मुच्यते पापैश्चतुःसंज्ञापरायणः । एतदिच्छामि विज्ञातुं प्रसीद व्याकुरुष्व मे ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org