________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व।
कचित्केवलमासाद्य लोकालोकप्रकाशनं । लोकप्राग्भारमारुह्य भजते नैर्वृतं सुखं ।। ८५ ॥ तिर्यग्नरकदुःखाग्निज्वालाभिः परिपूरितः । संसारो मुच्यते येन तं पंथानं महोत्तमं ॥ ८६ ॥ सर्वप्राणिहितोवोचन्मंद्रगर्जितनिस्वनः । प्रह्लादं सर्वचित्तानां जनयन्विदिताखिलः ॥ ८७ ।। संदेहतापरिच्छेदि तद्वचोंबु मुनींद्रजं । कांजलिपुटैः पीतं प्राणिभिः प्रीतमानसैः॥८८॥ ततो दशरथोऽपृच्छत्संजाते वचनांतरे । चंद्रकीर्तेः खगेंद्रस्य वैराग्यं नाथ किं कृतं ॥ ८९ ॥ सीता तत्र विशुद्धाक्षी ज्ञातुमिच्छुः सहोदरं । शुश्रूषया मनश्चक्रे विनीतात्यंतनिश्चलं ॥ ९० ॥ शुद्धात्मा भगवानूचे शृणु राजन् विचित्रतां । जीवानां निर्मितामेकां कर्मभिः स्वयमर्जितैः॥९१॥ संसारे सुचिरं भ्रांत्या जीवोयमतिदुःखितः । कर्मानिलेरितः प्राप्तश्चंद्रेण द्युतिमंडलः ॥९२ ॥ अर्पितः पुष्पवत्यै च स्त्रीचिंताकुलतारकः । स्वसारं च समालोक्य गाढाकल्पकमागतः॥ ९३ ॥ जनकः कृत्रिमाश्वेन हृतश्चापस्वयंवरा । जाता विदेहजा चिंतां परां भामंडलोऽगमत् ॥ ९४ ॥ अस्मरच्च भवं पूर्व मूर्छितः पुनरश्वसीत् । पृष्टश्चंद्रेण चावोचदिति पूर्वभवकियां ।। ९५ ।। भरतस्थे विदग्धाख्य पुरं कुंडलमंडितः । अधार्मिकोऽहरत्कांतां पिंगलस्य मनःप्रियां ॥ ९६ ॥ बालेंदुहृतसर्वस्वो विषयात्स निराकृतः । श्रमणाश्रममासाद्य प्राप व्रतमनामिषं ।। ९७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org