________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व ।
कारणं यदतिक्रांतं मृतमिष्टं च बांधवं । हृतं विनिर्गतं नष्टं न शोचंति विचक्षणाः ।। ७२ ॥ कातरस्य विषादोऽस्ति दयिते प्राकृतस्य च । न कदाचिद्विषादोऽस्ति विक्रांतस्य बुधस्य च ७३ एवं तयोः समालापं दंपत्त्योः कुर्वतोः क्षपा । कृपयैव गता शीघ्रं जातमंगलनिस्वना ॥७४ ॥ ततो दशरथः कृत्वा प्रत्यंगवस्तु सादरः । नगरीतो विनिष्क्रांतः ससुतः सांगनाजनः ।। ७५ ।। इतश्चेतश्च विस्तीर्णा पश्यन् खेचरवाहिनीं । ययौ स विस्मयापन्नः सामंतशतपूरितः ॥ ७६ ॥ ईक्षांचके च देवेंद्रपुरतुल्यं विनिर्मितं । क्षणाद्विद्याधरैः स्थानं तुंगप्राकारगोपुरं ॥ ७७ ॥ पताकातोरणैश्चित्रं रत्नैश्च कृतमंडनं । प्रविवेश तदुद्यानं साधुलोकसमाकुलं ॥ ७८ ॥ नत्वा स्तुत्वा च तत्रासौ गुरुं गुणगुरुं नृपः । ददर्शोदयने भानोश्चंद्रयानस्य दीक्षणं ।। ७९ ॥ नभश्चरैः समं पूजां कृत्वा सुमहतीं गुरोः । एकपार्श्वे निविष्टोसौ सर्वबांधवसंगतः ॥ ८॥ श्रीप्रभामंडलोप्येकं पार्श्वमाश्रित्य खेचरैः । समस्तैः सहितस्तस्थौ किंचिच्छोकमित्रोद्वहन् ८१ खेचरा भूचराश्चैते मुनयश्चांतिकं स्थिता । शुश्रुवुर्गुरुतो धर्ममनगारं तथेतरं ॥ ८२ ॥ चरितं निरगाराणां शूराणां शांतमीहितं । शिवं सुदुर्लभं सिद्धं सारं क्षुद्रभयावहं ।। ८३ ।। भव्यजीवा यमासाद्य लभंते संशयोज्झितं । सम्यग्दर्शनसंपन्ना गीवोणेद्रसुखं महत् ।। ८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org