SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम 1 चतुःषष्टितमं पर्व । भवद्भिरुत्तमैः प्रीतैर्बन्धदुःखं समागतैः । बाध्येऽहं नितरां कष्टं यदिदं मम वर्त्तते ॥ ५ ॥ एवं गजेन्द्रवद्वद्ध निजयूथमहागजः । अप्रकाशं परं शोकमसेवत स संततम् || ६ || शक्त्या हतं गतं भूमिं श्रुत्वा लक्ष्मीधरं परम् । संप्राप्ता जानकी शोकमकरोत्परिदेवनम् ॥ ७ ॥ हा भद्र लक्ष्मण प्राप्तस्त्वमवस्थामिमां हताम् । कृते मे मंदभाग्याया विनीत गुणभूषण ॥ ८ ॥ ईदृक्षमपि वांछामि भवन्तमहमीक्षितुम् । विमुक्ता हतदैवेन न लेभे पापकारिणी ॥ ९ ॥ भवन्तं तादृशं वीरं घ्नता पापेन शत्रुणा । क मे कृतो न संदेहः प्रवीरे मरणं प्रति ॥ १० ॥ वियुक्तो बंधुभिः भ्रातुरिष्टे संसक्तमानसः । अवस्थामा गतोऽस्येतां कृच्छ्रादुत्तीर्य सागरम् ॥ ११ ॥ अपि नाम पुनः क्रीडाकोविदं विनयान्वितम् । पश्येयं चारुवाक्यं त्वां परमाद्भुतकारिणम् ॥ १२ ॥ कुर्वन्तु सर्वथा देवास्तव जीवितपालनम् । विशल्यतां द्रुतं गच्छ सर्वलोकमनोहरः ॥ १३ ॥ एवं विलापिनी कृच्छ्राच्छोकिनी जनकात्मजा । भावप्रीतिभिरानीता खेचरीभिः प्रसांत्वनम् १४ ज्ञायते देवि नाद्यापि निश्चयो देवरस्य ते । अतो न वर्त्तते कर्तुमेतस्मिन्परिदेवनम् ।। १५ ।। भव धीरा प्रवीराणां भवत्येवेदृशी गतिः । भवंति च प्रतीकाराचिरं हि जगतीहितम् ॥ १६ ॥ इति विद्याधरीवाक्यात्किचित्साऽभूदनाकुला । मृण्विदानीं यदेतस्मिञ्जातं लक्ष्मणपर्वणि ॥१७॥ Jain Education International ४२० For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy