SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६१ त्रिपञ्चाशत्तमं पर्व | ततस्तैर्विविधाक्रोशैः संप्राप्तः कोपमुत्तमम् । अयासी द्बन्धनं छित्वा मोहपाशं यथा यतिः ॥ २६२॥ पादविन्यासमात्रेण भंक्त्वा गोपुरमुन्नतम् | द्वाराणि च तथान्यानि खमुत्पत्य ययौ मुदा २६३ शक्रप्रासादसंकाशं भवनं रक्षसां विभोः । हनूमत्पादघातेन विस्तीर्ण स्तंभसंकुलम् ॥ २६४ ॥ पतता वेश्मना तेन यंत्रितापि महानगैः । धरणी कंपमानीता पादवेगानुघाततः ।। २६५ ।। भूमिसंप्राप्तसौवर्णप्राकारं रंध्रगहरम् । वज्रचूर्णितशैलाभं जातं दाशमुखं गृहम् || २६६ ।। कपिमौलिभृतामीशं श्रुत्वैवंविधविक्रमम् । प्रमोदं जानकी प्राप्ता विषादं च मुहुर्मुहुः || २६७ ।। वज्रोदरी ततोऽवोचर्तिक वृथा देवि रोदिषि | संत्रोटय शृंखलं पश्य यातं मारुतिमंबरम् || २६८ || निशम्य वचनं तस्या विकसन्नेत्रपंकजा । गच्छन्तं मारुतिं दृष्ट्वा निजसैन्यसमागतम् ।। २६९ ।। अचिन्तयदयं वार्तां मह्यं नाथस्य मे ध्रुवम् । कथयिष्यति यस्यैष गच्छतः प्रवरो जवः || २७० || पृष्टतास्य सानन्दा पुष्पांजलिममुंचत | समाधानपरा भूत्वा श्रीरिवेशस्य तेजसा ॥ २७१ ॥ उवाच च ग्रहाः सर्वे भवन्तु सुखदास्तव | हतविघ्नश्चिरंजीव भोगवान् वायुनन्दन ॥ २७२ ॥ इति सुविहितवृत्ताः पूर्वजन्मन्युदाराः सकलभुवन वोधिश्लाघ्य कीर्तिप्रधानाः । अभिसरपरिमुक्ताः कर्म तत्कर्तुमीशाः जनयति परमं तद्विस्मयं दुर्विचित्यम् ।। २७३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy