SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३६२ चतुःपञ्चाशत्तम पर्व। भजत सुकृत्संगं तेन निर्मुच्य सर्व विरसफलविधायि क्षुद्रकर्म प्रयत्नात् । मवत परमसौख्यास्वादलोभप्रसक्ताः परिजितरविभासो जंतवः कान्तलीलाः ॥२७४॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे हनूमत्प्राभिगमनं नाम त्रिपंचाशत्तम पर्व । अथ चतुःपञ्चाशत्तमं पर्व । अथाससाद कैष्किन्धं हनूमान् बलमग्रतः । विधाय पुरविध्वंसध्वजछत्रादिचारुताम् ॥ १ ॥ वहिनिष्क्रान्तकैष्किन्धिजनसागरवीक्षितः । विवेश नगरं धीरो निसर्गोदारविभ्रमः ॥ २ ॥ वीक्षितांगान्महायोधान् दृष्टुं नगरयोषिताम् । गवाक्षार्पितवक्त्राणां संभ्रमः परमोऽभवत् ॥ ३ ॥ प्राप्य च वासमात्मीयं हितो भूत्वा पिता यथा । वातिराश्वासयन् सैन्यं यथायोग्यं समंततः॥४॥ तत सुग्रीवराजेन संगत्य ज्ञापितक्रियः। जगाम पद्मनाभस्य पादमूलं निवेदितुम् ॥ ५ ॥ प्रिया जीवति ते भद्रेत्येवमागत्य मारुतिः । वेदयिष्यति मे साधुरिति चिन्तामुपागतम् ॥ ६ ॥ क्षीणमत्यभिरामांगं क्षीयमाणं निरकुंशम् । वियोगवहिना नागं दावेनैवाकुलीकृतम् ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy