SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १४३ पंचस्त्रिंशत्तम पर्व। एतत्पश्यसि यद्विप्र पुर्या मध्ये महागृहं । शरदभ्रसमच्छायमत्रासौ पुरुषोत्तमः ॥ ६८॥ लोको दुर्लभदर्शन सर्वोननातिदुर्विधः । यच्छता वांछितं द्रव्यं जनितः पार्थिवोपमः ॥ ६९॥ विप्रोऽवोचदुपायेन केन पश्यामि सुंदरि । पद्म सद्भावतः पृष्टा निवेदयितुमर्हसि ॥ ७० ॥ इत्युक्त्वा समिधाभारं निक्षिप्य भुवि सांजलिः । पपात पादयोस्तस्याः सा कस्य न मनोहरा ७१ ततोसौ कृपयाकृष्टा सुमाया नाम यक्षिणी । जगाद विप्रं परमं त्वयेदं साहसं कृतं ॥ ७२ ॥ अस्याः पुरः समासन्नां कथं त्वं भुवमागतः । आरक्षकैरलं घोरेनूनं नश्यति वीक्षितः ॥ ७३ ।। अस्या द्वारत्रयं पुर्याः दुष्प्रवेशं सुरैरपि । अशून्यं सर्वदा वीरैः रक्षकैः सुनियामकैः ॥ ७४ ॥ सिंहवारणशार्दूलतुल्यवक्त्रैर्महोज्वलैः । एभिर्विभीषिता मृत्युं मानुषा यांत्यसंशयं ॥ ७५ ॥ पूर्वद्वारमदो यत्तु तस्य पश्यसि यान्वहिः । प्रासादानंतिकानेतान् वलाकाच्छादनच्छवीन् ।।७६।। मणितोरणरम्यषु विविधध्वजराजिषु । अर्हताभिंद्रवंद्यानाममीषु प्रतियातनाः ।। ७७॥ सामायिकं पुरस्कृत्य तासां यस्तवनं नरः । नमोहत्सिद्धनिस्वानपूर्व पठति भावतः ।। ७८ ।। गुरूपदेशयुक्तोऽसौ सम्यग्दर्शनराक्षितः । विशतींद्रककुप् द्वार हन्यतेत्व नमस्कृतिः ॥ ७९ ॥ अणुव्रतधरो यो ना गुणशीलविभूषितः । तं रामः परया प्रीत्या वांछितेन समर्चति ॥ ८० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy