SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १७९ अष्टत्रिंशत्तमं पर्व। इत्याद्यालापसंसक्तं कुर्वाणावबलाजनं । रेमाते शुद्धचित्तौ तौ स्वेच्छाविहृतिकारिणौ ॥ ५६ ॥ नानाजनपदाकीणां पर्यट्य धरिणीमिमौ । क्षेमांजलिसमाख्यानं संप्राप्तौ परमं पुरं ॥ ५७॥ उद्याने निकटे तस्य जलदोत्करसन्निभे । अवस्थिताः सुखेनैते यथा सौमनसे सुराः ॥ ५८ ॥ अन्नं वरगुणं भुक्त्वा लक्ष्मणेनोपसाधितं । माध्वीकं सीतया सार्धमसेवत हलायुधः ॥ ५९ ॥ प्रासादगिरिमालाभिस्ततो हृतनिरीक्षणः । लक्ष्मणः पद्मतोऽनुज्ञां प्राप्य प्रश्रययाचितां ॥ ६ ॥ दधानः प्रवरं माल्यं पीतांबरधरः शुभः । स्वैरं क्षेमांजलिं दृष्टुं प्रतस्थे चारुविभ्रमः ॥६१॥ नानालतोपगूढानि काननानि वराण्यसो । सरितः स्वच्छतोयाश्च शुभ्राभ्रसमसैकताः ॥ ६२॥ विचित्रधातुरंगांश्च परिक्रीडनपर्वतान् । देवधामानि तुंगानि कूपान्वापी सभाः प्रपाः ॥ ६३ ॥ लोकं च विविधं पश्यन् दृश्यमानः सविस्मयं । विवेश नगरं धीरो नानाव्यापारसंकुलं ॥६४॥ शृणु श्रुण्विति तत्रायं प्रधानविशिखागतं । अश्रृणोत्पौरतः शब्दामिति विश्रब्धभाषितं ॥६५॥ पुरुषः कोन्वसौ लोके यो मुक्तां राजपाणिना । शक्तिं प्रसह्य शूरेंद्रो जितपद्मां गृहीष्यति ॥६६॥ स्वर्गे राज्यं ददामीति राजा चेत्पतिपद्यते । तथापि नानया कृत्यं कथया शक्तियातया ॥६७॥ जातश्चाभिमुखः शक्तेः प्राणेश्च परिवर्जितः । किं करिष्यति कन्यास्य राज्यं वा त्रिदशालये ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy