________________
२१२
पद्मपुराणम् ।
एकचत्वारिंशत्तम पर्व । न किंचिदत्र बहुना चिंतितेन प्रयोजनं । गतिरन्या न मे लोके विद्यते दुःखसंक्षये ॥ ३८ ॥ एतौ प्रयामि शरणं साधू सर्वसुखावहौ । इतो मे परमार्थस्य प्राप्तिः संजायते ध्रुवं ॥ ३९ ॥ इति पूर्वमेव ध्यानात्परमं शोकमागतः । दर्शनाच्च महासाधोः प्रमोदं त्वरयान्वितः॥४०॥ विधूय पक्षयुगलमश्रुसंपूर्णलोचनः । पपात शाखिनो मूर्ध्नः प्रश्रयान्वितविभ्रमः ॥ ४१॥ नागा सिंहादयोऽप्यत्र नादेन महतामुना | विदुद्रपुरयं दुष्टः कथं तु न खगाधमः ॥ ४२ ॥ हा मातः पश्यतामुष्य धाष्टयं गृध्रस्य पापिनः । चिंतयित्वेति वैदेह्या कोपाकुलितचित्तया ४३ वार्यमाणोऽपि यत्नेन कृतनिष्ठुरशब्दया । मुनिपादोदकं पक्षी सोत्साहः पातुमुद्यतः ॥४४॥ पादोदकप्रभावेण शरीरं तस्य तत्क्षणं । रत्नराशिसमं जातं परीतं चित्रतेजसा ॥ ४५ ॥ जातौ हेमप्रभौ पक्षी पादौ वैडूर्यसनिभौ । नानारत्नच्छविदेहश्चंचुर्विद्रुमविभ्रमा ॥ ४६ ॥ ततः स्वमन्यथा भूतमवलोक्य सुसंमदः । विमुचन्मधुरं नादं नर्तितुं स समुद्यतः॥४७॥ देवदुंदुभिनादोसावेव तस्यातिसुंदरीं । आतोद्यत्वं परिप्राप्तं त्वां च वाणी सुतेजसः॥४८॥ मुंचनानंदनेत्रांमश्चक्रीकृत्य गुरुद्वयं । शुशुभे कृतनृत्योसौ शिखी मेघागमे यथा ॥४९॥ विधिना पारणं कृत्वा मुनी कृतयथोचितौ । वैडूर्यसदृशे राजन्नुपविष्टौ शिलातले ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org