________________
पद्मपुराणम्।
३४२
त्रिपंचाशत्तम पर्व। पादिछादितैः स्वच्छैः सरोभिः सदलंकृतम् । भासुरं कल्पवल्लीभिः संगताभिर्महातरुम् ॥१६॥ गीर्वाणकुरुदेशामं प्रसूनरजसा वृतं । नन्दनस्य दधत्साम्यमनेकाद्भुतसंकुलम् ॥ १७ ॥ ततो लीलां वहन् रम्यां वाय राजीवलोचनः । विवेश परमोद्यानं सीतादर्शनकांक्षया ॥ १८॥ प्रजिघाय च सर्वासु दिषु चक्षुरतित्वरम् । विविधद्रुमदेशेषु गहनेषु दलादिभिः ॥ १९ ॥ दृष्ट्वा च दूरतः सीतामन्यदर्शनवर्जितः । अचिन्तयदसौ सैषा रामदेवस्य सुन्दरी ॥ २० ॥ स्निग्धज्वलनसंकाशा वाष्पपूरितलोचना । करविन्यस्तवक्त्रेन्दुमुक्तकेशी कृशोदरी ॥ २१ ॥ अहो रूपमिदं लोके जिताशेषमनोहरम् । परमां ख्यातिमायातं सत्यवस्तुनिबन्धनम् ॥ २२ ॥ रहिता शतपत्रेण नास्या लक्ष्मीः समा भवेत् । दुःखाणेवं गताप्येषा सदृशी नान्ययोषिता॥२३॥ निपत्य शिखरादरेरस्य मृत्युमुपैम्यहम् । विरहे पद्मनाभस्य धारयामि न जीवितम् ॥ २४ ॥ कृतप्रचिंतनामेवं वैदेही पवनात्मजः । निःशब्दपातसंपातः प्राप्तो रूपान्तरं दधत् ॥ २५ ॥ ततोऽगुलीयकं तस्या विससर्जाकवाससि । सहसा सा तमालोक्य स्मेराऽभूत्पुलकाचिता ॥२६॥ तस्यामेवावस्थायां गत्वा नार्यस्त्वरान्विताः । तोषादवर्धयन् दिष्टया रावणं तत्परायणम् ॥२७॥ संतुष्टोंऽगगतं ताभ्यो वस्त्ररत्नादिकं ददौ । श्रुत्वा स्मेराननां सीतां सिद्धं कार्य विचिन्तयत् ॥२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org