________________
पद्मपुराणम् ।
एकोनत्रिंशत्तमपर्व।
अद्य स्वीनममुं कायं जरया जर्जरीकृतं । नाथ धतुं न शक्नोमि वाद्ये वस्तुनि का कथा ॥ ६४॥ नितांतपटुताभांजि हृषीकाणि पुरा मम । संप्रत्युद्देशमात्रेण स्थितानि जडचेतसः॥६५॥ पदमन्यत्र यच्छामि पतत्यन्यत्र दुर्घटे । श्याममेवाखिलं दृष्टया पश्यामि धरणीतलं ॥ ६६ ॥ गोत्रक्रमसमायातमिदं राजकुलं मम । यत शक्नोपि न त्यक्तुमपि प्राप्येदृशी दशां ॥ ६७ ॥ पकं फलमिवैतन्मे शरीरं कापि वासरे । नेष्यत्याहारतां मृत्युमर्मरच्छदनोपमां ॥ ६८॥ न तथासन्नमृत्योर्मे स्वामिन् संजायते भयं । भवच्चरणसंसेवाविरहाद्भाविनो यथा ॥ ६९ ॥ व्याक्षेपो मे कुतः कश्चिद्दधतस्तनुमीदृशीं । भवदाज्ञा प्रतीक्ष्यैव यस्य जीवितकारणं ॥ ७०॥ स त्वं नाथ जराधीनं मम ज्ञात्वा शरीरकं । कोपमर्हसि नो कर्तुं धीर धत्स्व प्रसन्नतां ॥७१ ॥ निशम्य तद्वचो राजा गंडं कुंडलमंडितं । वामे करतले न्यस्य चिंतामेवमुपागमत् ॥ ७२ ॥ जलबुद्धदनिस्सारं कष्टमेतच्छरीरकं । संध्याप्रकाशसंकाशं यौवनं बहुविभ्रमं ॥ ७३ ॥ सौदामिनीत्वरस्यास्य कृते देहस्य मानवाः । आरंभते न किं कृत्यं नितांतं दुःखसाधनं ।।७४॥ अतिमत्तांगनापांगभंगतुल्याः प्रतारकाः । भोगिभोगसमाभोगास्तापोपचयकारिणः ॥ ७५ ॥ विषयेषु यदायत्तं दुष्प्रापेषु विनाशिषु । दुखमेतद्विमूढानां सुखत्वेनावभासते ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org