SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३७९ पचाशत्तम पर्व । इंद्रेण साधितो यो न पतिर्विद्याभृतामयम् । एकस्य चापिनः साध्यो रावणः संजायते ॥ २९ ॥ सर्वतेजस्विमूर्धानं विभोरस्याधितिष्ठतः । श्रोतुं नामापि कः शक्तश्वेतनश्चक्रवर्तिनः ॥ ३० ॥ सुपीवरभुजो वीरो दुर्द्धरस्त्रिदशैरपि । भुवने कस्य न ज्ञातः कुंभकर्णो महाबलः ॥ ३१ ॥ यत्रिशूलधरः संख्ये कालाग्निरिव दीप्यते । सोऽयं विजीयते केन जगदुत्कटविक्रमः ॥ ३२ ॥ यस्यातपत्रमालोक्य शरदिन्दुमिवोद्गतम् । शत्रुसैन्यतमोध्वंसमुपयाति समंततः ॥ ३३ ॥ उदात्ततेजसस्तस्य स्थातुं यस्याग्रतोऽपि कः । समर्थपुरुषो लोके निजजीवितनिस्पृहः || ३४ ॥ इति बहुविधवाचां द्वेषरागाश्रितानाम् । प्रकटितनिजचित्तप्रार्थनासंकटानाम् ॥ द्वितयबलजनानां दृष्टनानाक्रियाणाम् | अजनि जनितशंको भावमार्गो विचित्रः || ३५ ॥ चरितजनन कालाऽभ्यस्तरागेतराणाम् । भवमपरिमितानामप्ययं चित्तमार्गः ॥ भवति खलु तथैव व्यक्तमेतं हि लोकम् । स्वचरितरविरेव प्रेरयत्यात्मकार्ये || ३६ ॥ इत्यार्षे रविषेणाचार्यंप्रोक्ते पद्मपुराणे - उभयबलप्रमाणविधानं नाम षट्पंचाशत्तमं पर्व ॥ ५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy