________________
पद्मपुराणम् ।
४०५
एकषष्टितम पर्व। अथैकषष्टितमं पर्व । एतस्मिन्नन्तरे दिव्यकवचच्छन्नविग्रहौ । लक्ष्मीश्रीवत्सलक्ष्माणौ तेजोमंडलमध्यगौ ॥ १ ॥ नागारिवाहनारूढी सकेतौ पद्मलक्ष्मणौ । सैन्यसागरमध्यस्थौ सैंहगारुडकेतनौ ॥२॥ परपक्षक्षयं कर्तुमुद्यतौ परमेश्वरौ । संग्रामधरणीमध्यं तेन संश्रतुरुत्कटौ ॥३॥ अग्रतस्त्वरितो जातः सौमित्रिमित्रवत्सलः । दिव्यातपत्रविक्षिप्तदुरुभास्करदीधितिः ॥ ४ ॥ श्रीशैलप्रमुखैर्वीरैर्वतः प्लवगकेतनैः । दधानस्वैदर्श रूपमशक्यपरिवर्णनं ॥५॥ अग्रतः प्रस्थिते तस्मिन् द्वादशादित्यभास्वरं । दृष्टं विभीषणेनेदं जगद्विस्मिततेजसा ॥६॥ गरुत्मकेतने तस्मिन्संप्राप्ते तत्तथाधनम् । अस्त्रं सांतमसं कापि गतं गरुडतेजसा ।। ७ ।। गरुत्मपक्षवातेन क्षोभितक्षारसिंधुना । नीता विषधरा नाशं कुभाव इव साधुना ॥ ८ ॥ तार्यपक्षविनिर्मुक्तमयूखालोकसंगतम् । जांबूनदरसेनेव जगदासीद्विनिर्मितम् ॥९॥ ततो नभश्चराधीशौ गतपन्नगबन्धनौ । प्रभामण्डलसुग्रीवौ समाश्वासनमापतुः ॥ १० ॥ सुखेन प्राप्य निद्रां च रत्नांशुकसमावृतौ । अलगदलतारेखासमलंकृतविग्रहः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org