________________
पद्मपुराणम् ।
'अष्टपश्चाशत्तम पर्व । महाम्बुदप्रतीकाशा नानायानसमाश्रिताः। लंकाभिमुखमुक्ता गंतु खेचरपार्थिवाः ॥ २५॥ प्रलयलंबितांभोदवृंदनि?षभैरवाः । शंखकोटिस्वनोन्मिश्रास्तूर्याणामुद्ययुः स्वनाः ॥२६॥ भंभाभेर्यो मृदंगाश्च लंपाका धुंधुमंडुकाः । झम्लाम्लातकहक्काश्च हुंकारा दुंदुकाणकाः ॥ २७ ॥ झर्झरा हेकगुंजाश्च काहला दर्दुरादयः । समाहता महानादं मुमुचुः कर्णघूर्णकम् ॥ २८॥ वेणुनादाट्टहासाश्च ताराहलहलारवाः । ययुः सिंहद्विपस्वाना महिषस्यन्दनस्वनाः ॥ २९ ॥ क्रमेलकमहारावा निनादा मृगपक्षिणाम् । उत्तस्थुः पिहिताशेषाः शेषविष्टपनिःस्वनाः ॥३०॥ तयोरन्योन्यमासंगे जाते परमसैन्ययोः । लोकः संशयमारूढः समस्तो जीवितं प्रति ॥ ३१ ॥ क्षोणी क्षोभं परं प्राप्ता विकंपितमहीधरा । प्रशोष गंतुमारब्धः प्रक्षुब्धः क्षारसागरः ॥ ३२ ॥ सदनिर्गतैर्योधैरसहैर्निजवर्गतः । दंतुरीभूतमत्युग्रं बलद्वयमलक्ष्यत ॥ ३३ ॥ चक्रक्रकचकुंतासिगदाशक्तिशिलीमुखैः। भिंडिमालादिभिश्चोग्रं प्रवृत्तं युद्धमेतयोः ॥ ३४॥ आहृयन्तः सुसन्नद्धाः शस्त्रज्वलितबाहवः । समुत्पेतुर्भटाः शूराः परसैन्यं विवक्षवः ॥ ३५ ॥ अतिवेगसमुत्पाताः प्रविष्टाः शात्रवं बलम् । शस्त्रसंचारमार्गार्थमपसश्रुः पुनर्मनाक् ॥ ३६ ॥ लंकानिवासिभिर्योधैरुद्गतैरतिभूरिभिः । सिंहैरिव गजा भंग नीता वानरपक्षिणः ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org