________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व।
भामंडलकुमारस्य सीतां चिंतयतस्तु तत् । क्रतुनार्चितमप्येवं जातमग्निसमं जगत् ॥ ७ ॥ अरत्याकर्षितांगोसौ परित्यज्यान्यदा त्रपां । पितुः पुरः परं मित्रं वसंतध्वजमब्रवीत् ॥८॥ दीर्घसूत्रो भवानेवं परकार्येषु शीतलः । गणरात्रमिदं दुःखं तस्यां मे गतवेगतः ॥९॥ उद्वेगविपुलावर्ते प्रत्याशाजलधौ मम । निसर्गतः सखे कस्माद्दीयते नावलंबनं ॥१०॥ इत्यार्तध्यानयुक्तस्य निषम्य गदितं बुधाः । सर्वे गतप्रभाभूता विषादं परमं ययुः ॥ ११ ॥ तान् वीक्ष्य शोकसंतप्तान्वारणानिव शुष्यतः । आवर्जितशिरोनीडां क्षणं भामंडलोऽगमत् ॥१२॥ वृहत्केतुस्ततोऽवोचत्किमद्याप्युपगुह्यते । निवेद्यतां कुमारस्य निराशो येन जायते ॥ १३ ॥ ततस्ते कथयांचक्रुस्तस्मै सर्व यथाविधि । चंडयानं पुरस्कुत्य कथमप्युज्झिताक्षराः ॥ १४ ॥ जनको बालकन्यायादिहैवास्माभिराहृतः । याचितश्चातियत्नेन पद्मस्योचे प्रकल्पितां ॥ १५ ॥ उक्तप्रत्युक्तमालाभिरमाभिस्तेन निर्जितैः । धनूरत्नावधिश्चके कृतसन्मंत्रणैः किल ॥१६॥ धनूरत्नलता तस्य रामस्याक्लिष्टकर्मणः । शार्दूलस्य क्षुधार्तस्य मांसपेशी यथार्पिता ॥ १७ ॥ कन्या स्वयंवरा साध्वी कथाहृदयहारिणी । नवयौवनलावण्यपरिपूरितविग्रहा ॥ १८ ॥ अबालेंदुमुखी बाला मदनेन समर्पिता । वैदेही रामदेवस्य श्रीसमा वनिताभवत् ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org