________________
पद्मपुराणम्।
प
षत्रिंशत्तम पर्व ।
कथाभिः स्मितयुक्ताभिः याताभिः स्थानयुक्ततां । ते तत्र त्रिदशच्छाया नष्टनिद्राः सुखं स्थिताः॥ सख्योत्र वनमालायाः समये बोधमागताः । शयनीयं तथा शून्यं ददृशुस्त्रस्तमानसाः॥६५॥ ततोऽश्रुपूर्णनेत्राणां गवेषव्याकुलात्मनां । तासां हाकारशब्देन प्रबोधं भेजिरे भटाः ॥६६॥ उपलभ्य च वृत्तातं सन्नह्यारूढसप्तयः । शूराः पदातयश्चान्ये कुंतकार्मुकपाणयः ॥ ६७ ॥ दिशः सर्वा समास्तीर्य दधावुद्धांतमानसाः । भीतिप्रीतिसमायुक्ताः समीरस्येव शावकाः॥६८॥ ततः कैरपि ते दृष्टाः समेता वनमालया । निवेदिताश्च शेषस्य जनस्य जववाहनैः ॥ ६९॥ ज्ञातनिश्शेषवृत्तांतस्तैरलं सम्मदान्वितैः । पृथिवीधरराजस्य कृतं दिष्टयाभिवर्धनं ॥ ७० ॥ उपायारंभमुक्तस्य तवाद्य नगरे प्रभो । जगाम प्रकटीभावं महारत्ननिधिः स्वयं ॥ ७१ ॥ पपात नभसो वृष्टिविना मेघसमुद्भवात् । परिकर्मविनिर्मुक्तं सस्यं क्षेत्रात्समुद्गतं ॥ ७२ ॥ जामाता लक्ष्मणोयं ते वर्तते निकटे पुरः । जीवितं हातुमिच्छंत्या संगतो वनमालया ॥ ७३ ॥ पद्मश्च सीतया साकं परमो भवतः प्रियः । शच्येव सहितो देवें-द्रोयमत्र विराजते ॥ ७४ ॥ वदतामिति भृत्यानां वचनैः प्रियसंशिभिः । सुखनिर्झरचेतस्को मुमूर्छ नृपतिः क्षणं ॥ ७५ ॥ ततः प्रबुद्धचित्तेन परं प्रमदमीयुषा । दत्तं बहुधनं तेभ्यः स्मितशुक्लमुखेंदुना ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org