________________
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । शरीररथमुन्मुक्ताः पातयंति कुवमसु । चित्तप्रग्रहमत्यंत योग्यं कुरुत ततदृढं ॥ १२४ ॥ नमस्यत जिनं भक्त्या स्मरतानारतं तथा । संसारसागरं येन समुत्तरत निश्चितं ॥ १२५ ॥ मोहारिकंटकं हित्वा तपःसंयमहेतुभिः । लोकाग्रनगरं प्राप्य राज्यं कुरुत निर्भयाः ॥ १२६ ॥ जैनं व्याकरणं श्रुत्वा सुधीविजयपर्वतः । त्यक्त्वा विपुलमैश्वर्यं बभूव मुनिपुंगवः ॥ १२७॥ तावपि भ्रातरौ तस्मिन् श्रुत्वा भक्त्या जिनश्रुतिं । प्रवज्य सुतपोभारौ संगतावाटतुर्मही १२८ सम्मेदं च बजतौ ताविष्टनिर्वाणवंदनौ । कथंचिन्मार्गतो भ्रष्टावरण्यानीं समाश्रितौ ॥ १२९ ।। वसुभूतिचरेणाथ रौद्रम्लेच्छेन वीक्षितौ । अतिकुद्धेन चाहूतौ गिरा क्रोशकुठारया ॥ १३० ॥ जिघांसंतं तमालोक्य ज्यायान्मुदितमब्रवीत् । माभैषीभ्रोतरद्य त्वं समाधानं समाश्रय ॥ १३१॥ म्लेच्छोयं हंतुमुद्युक्तो दृश्यते नौ दुराकृतिः । चिराभ्याससमृद्धाया क्षांतरद्य विनिश्चयः ॥१३२॥ प्रत्युवाच स तं भीतिः का नौ जिनवचस्थयोः । नूनं मूढतयास्माभिरप्ययं प्रापितो वधं ॥१३३॥ एवं तौ विहितालापौ सविचारं समाश्रितौ । प्रत्याख्यानं शरीरादेः प्रतिमायोगमागतौ ॥१३४॥ समीपतां च संप्राप्तो म्लेच्छो हेतुं समुद्यतः । आलोक्य दैवयोगेन सैनेशेन निवारितः ॥१३५।। रामः पप्रच्छ तेनैतौ व्यापादयितुमीप्सितौ । सेनाधिपेन निर्मुक्तौ रक्षितौ केन हेतुना ॥ १३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org