SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३९९ षष्टितमं पर्व | इत्युक्त्वा मुदितोऽत्यन्तमारुह्य गिरिसन्निभम् । त्रैलोक्यकंटकाभिख्यं गजेन्द्रं परमं प्रियः ॥ ६९ ॥ गृहीतादरसर्वस्वो महासचिवसंगतः । ऋद्धथाखंडल संकाशः प्रवीरो योद्धुमुद्यतः ॥ ७० ॥ कपिध्वजवलं तेन विविधायुधसंकटम् । ग्रस्तमस्थितमात्रेण महावीर्येण मानिना ॥ ७१ ॥ किष्किन्धाधिपतेः सैन्ये न सोऽस्ति कपिकेतनः । यो न शक्रजिता विद्धः शरैराकर्णसंहितैः ७२ किमयं शक्रजिन्नायं शक्रो वह्निरियं नु किम् । उतायमपरो भानुरिति वाचः समुद्ययुः ॥ ७३ ॥ ग्रस्यमानं निजं सैन्यं वीक्ष्य शक्रजिता ततः । सुग्रीवः स्वयमुद्यातः प्रभामण्डल एव च ॥७४॥ तद्भटानामभूद्युद्धमन्योन्यादानसंकुलम् | शस्त्रांधकारिताकाशमनपेक्षितजीवितम् ॥ ७५ ॥ अश्वैरश्वैः समं लग्नाः नागा नागै रथा रथैः । निजनाथानुरागेण महोत्साहभटा भटैः ॥ ७६ ॥ जगादेन्द्रजितः कुद्धः किष्किंधेशं पुरः स्थितं । अपूर्वशस्त्रभूतेन स्वरेण गगनस्पृशा ।। ७७ ।। दशास्यशासनं त्यक्त्वा शाखामृगपशो त्वया । काधुना गम्यते पाप मयि कोपमुपागते ॥ ७८ ॥ इंदीवरनिनाद्य सायकेन तवामुना । शिरश्छिन संरक्षां कुरुतां क्षितिगोचरौ ॥ ७९ ॥ किष्किधेशस्ततोऽवोचत्किमेभिर्गर्जितैर्मुधा । मानशृङ्गमिदम्भनं तत्तु पश्य मयाधुना ॥ ८० ॥ इत्युक्ते कोपसंभारं वहनिद्रजितोद्भुतं । चापमास्फायन्नस्य समीपत्वमुपागतः ॥ ८१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy