________________
पद्मपुराणम् ।
त्रिंशत्तमं पर्व। तत्र बांधवभूतस्य गुरोः शासनतो मया । अनामिषं व्रतं शुद्धं गृहीतं क्षुद्रशक्तिना ।। ४६ ॥ शासनस्य जिनेंद्राणामहो माहात्म्यमुत्तमं । तथापि यन्महापापो नावतीर्णोऽस्मि दुर्गतिं ॥४७॥ अनन्यशरणत्वेन व्रतेन नियमेन च । स ममान्येन जीवेन विदेहाकुक्षिमागमत् ॥ ४८ ॥ सुखेन च प्रसूता सा कन्यया सहितं तु के । केनाप्यपहतश्चायं गृध्रेण पिशितं यथा ॥ ४९ ॥ नक्षत्रगोचरातीतं तेन नीतोऽस्मि पुष्करं । असौ नूनं स यस्यासौ हृता जाया मया पुरा ॥५०॥ मारयामीति तेनोक्त्वा भूयः कृत्वानुकंपनं । शनैरस्मि विमुक्तः खात् कुंडलाभ्यामलंकृतं ॥५१॥ पतद्वीक्ष्य तदा रात्रावुद्याने परमे त्वया । गृहीत्वा तात दत्तोस्मि जायायै करुणावता ॥५२॥ सोहं भवत्प्रसादेन तदंके वृद्धिमागतः । परं विद्याधरत्वं च कृतदुर्लडितक्रियः ॥ ५३॥ इत्युक्त्वा विररामासौ विस्मयं च जनो गतः । हाकारबहुलं शब्दं कुर्वन् कंपितमस्तकः ॥५४॥ इमं चंद्रगतिः श्रुत्वा वृत्तांतमतिचित्रितं । लोकधर्मतरुं वध्यं विदित्वा भवबंधनं ।। ५५ ।। भूतमात्रमति त्यक्त्वा सुनिश्चित्यात्मकर्मणां । परं प्रबोधमायातः संवेगं च सुदुर्लभं ॥ ५६ ॥ आत्मीयं राज्यमाधाय तत्र पुत्रे यथाविधि । सर्वभूतहितस्यागात्पादमूलं त्वरान्वितः ॥ ५७ ॥ भगवान् स हि सर्वत्र विष्टपे प्रथितात्मकः । गुणरश्मिसमूहेन भव्यानंदविधायिना ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org