SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३२८ पंचाशत्तम पर्व। जगतो गुरुभूतस्त्वं बांधवानां समाश्रयः । दुःखादित्यप्रतप्तानां समस्तानां घनाघनः ॥ ४४ ॥ इति प्रशस्य तं नेहाद्रुदस्राक्षश्चलत्करः । अजिघन्मस्तके ननं पुलकी परिषस्वजे ॥ ४५ ॥ प्रणम्य वायुपुत्रोऽपि तमार्य विहितांजलिः । अतितिक्षद्विनीतात्मा क्षणाघातोऽन्यतामिव ॥४६॥ मया शिशुतया किंचिदार्य दत्ते विचेष्टितम् । दोषमेवं समस्तं मे प्रतीक्ष्य क्षांतुमर्हसि ॥ ४७ ।। समस्तं च समाख्यातं तेनागमनकारणम् । पद्मारामादिकं यावदात्मागमनमादृतम् ।। ४८ ॥ अहमार्य गमिष्यामि त्रिकूटमतिकारणम् । त्वं किष्किन्धपुरं गच्छ कार्य दाशरथेः कुरु ॥ ४९ ॥ इत्युक्त्वा वायुसंभूतः खमुत्पत्य ययौ सुखम् । त्रिकूटाभिमुखः क्षिप्रं सुरलोकमिवापरः ।। ५० ॥ गत्वा माहेन्द्रकेतुश्च तनयां नयकोविदः । प्रसन्न कीर्तिना सार्द्ध वत्सलः समपूजयत् ॥५१॥ मातापितृसमायोगं सोदरस्य च दर्शनम् । अंजनामुन्दरी प्राप्य जगाम परमां धृतिम् ॥ ५२ ॥ महेन्द्रनिभृतं श्रुत्वा किष्किन्धाभिपुखोऽगमम् । विराधितप्रभृतयस्तोषमाययुरुत्तमम् ॥५३॥ पुरा विशिष्टं चरितं कृतात्मनां सुचेतसामुत्तमचारुतेजसाम् । महात्मनामुन्नतगर्वशालिनो भवन्ति वश्याः पुरुषा बलान्विताः ॥५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy