________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तम पर्व । तत्रादरनिराकाक्षं तल्पविक्षिप्तविग्रहम् । सोन्मादकेशरिच्छायं निस्वसंतमिवोरगम् ॥ ३८ ॥ भतारं दुःखयुक्तेव भूषणादरवर्जिता । महादरमुवाचैवमुपसृत्य मयात्मजा ॥ ३९ ॥ किं नाथाकुलतां धत्से खरदूषणमृत्युना । न विषादोऽस्ति शूराणामापत्सु महतीष्वपि ॥४०॥ पुरानेकत्र संग्रामे सुहृदास्ते क्षयं गताः । न च ते शोचिता जातु दूषणं किंतु शोचसि ॥ ४१ ।। आसन्महेन्द्रसंग्रामे श्रीमालिप्रमुखाः नृपाः । बांधवास्ते क्षयं याताः शोचितास्ते न जातुचित् ४२ अभूतसर्वशोकस्त्वमासीदपि महापदि । शोकं किं वहसीदानी जिज्ञासामिति भो वद ॥४३॥ ततः सहोदरः स्वैरं निश्वस्योवाच रावणः । तल्पं किंचित्परित्यज्य धारितो दारितोक्षरम्॥४४॥ श्रृणु सुन्दरि सद्भावमेकं ते कथयाम्यहम् । स्वामिन्यसि ममासूनां सर्वदा कृतवांछिता ॥ ४५ ॥ यदि वांछसि जीवंतं मां ततो देवि नाहसि । कोपं कर्तुं ननु प्राणा मूलं सर्वस्य वस्तुनः ॥४६॥ ततस्तयैवमित्युक्ते शपथैर्विनियम्यताम् । विलक्ष इव किंचित्स रावणः समभाषत ॥४७॥ यदि सा वेधसः सृष्टिरसादुःखवर्णना। सीता पतिं न मां वष्टि ततो मे नास्ति जीवितम् ४८ लावण्यं यौवनं रूपं माधुर्य चारुचेष्टितम् । प्राप्यतां सुन्दरीमेकां कृतार्थत्वमुपागताम् ॥ ४९ ॥ ततो मन्दोदरी कष्टां ज्ञात्वा तस्य दशामिमाम् । विहसन्ती जगादेवं विस्फुरदन्तचन्द्रिका ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org