________________
पद्मपुराणम्।
चतुस्त्रिंशत्तम पर्व। अथ चतुस्त्रिंशत्तमं पर्व परमं सुंदरे तत्र फलपुष्पभरानते । गुंजद्धमरसंघाते मत्तकोकिलनादिते ॥१॥ कानने सीतया साकमग्रजन्मा स्थितः सुखं । अंतिका सलिलार्थी तु लक्ष्मणः सरसीं गतः॥२॥ अत्रांतरे सुरूपाढ्यो नेत्रतस्करविभ्रमः । एकोऽपि सर्वलोकस्य हृदयेषु समं वसन् ॥ ३ ॥ महाविनयसंपन्नः कांतिनिर्झरपर्वतः । वरवारणमारूढ़श्वारुपादातमध्यगः ॥ ४ ॥ तामेव सरसी रम्या क्रीडनाहितमानसः । प्राप्तः कल्याणमालाख्यो जनस्तन्न गराधिपः ॥५॥ महतः सरसस्तस्य हृष्टा तं तीरवर्तिनं । नीलोत्पलचयश्याम लक्ष्मणं चारुलक्षणं ॥६॥ ताडितः कामबाणेन स जनोत्यंतमाकुलः । मनुष्यमब्रवीदकमयमानीयतामिति ॥ ७॥ गत्वा कृत्वांजलिर्दक्षः स तमेवमभाषत । एह्ययं राजपुत्रस्ते प्रसादात्संगमिच्छति ॥ ८॥ को दोष इति संचित्य दधानः कौतुकं परं । जगाम लीलया चाा समीपं तस्य लक्ष्मणः॥९॥ उत्तीर्य स जनो नागात्पद्मतुल्येन पाणिना । कर लक्ष्मणमालंब्य प्राविशद् गृहमांबरं ॥१०॥ एकासने च तेनातिप्रतीतः सहितः स्थितः । अपृच्छच्च सखे कस्त्वं कुतो वा समुपागतः॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org